________________
|चागमिकन्यायेन गुणसम्भवाद्गुर्वाज्ञया पुनर्भुजानस्यापि न भङ्गः, 'वोसिरई' व्युत्सृजत्यनेकाशनमशनाद्याहारं च परिहरति । तथा एकस्थाने - सप्ताऽऽकारा भवन्ति, तस्येदं सूत्रं-'एक्कासणं एगट्ठाणं पञ्चक्खाइ' इत्याद्येकाशनवदाकुञ्चनप्रसारणाऽऽकारवर्ज, एक-अद्वितीयं
स्थानं-अङ्गविन्यासरूपं यत्र तदेकस्थानप्रत्याख्यानं, तद् यथा भोजनकालेऽङ्गोपाङ्गं स्थापितं तस्मिंस्तथास्थित एव भोक्तव्यं, मुखस्य हस्तस्य चाशक्यपरिहारत्वाच्चलनमप्रतिषिद्धमिति । अथाऽऽचाम्ले अष्टावाकारास्तत्र सूत्रं-"आयंबिलं पञ्चक्खाइ अन्नत्थऽणाभोगेणं सहसागारेणं लेवालेवेणं गिहिसंसट्टेणं उक्खित्तविवेगेणं पारिद्वावणियागारेणं महत्तरागारेणं सव्यसमाहिवत्तियागारेणं वोसिरइ"
अस्यार्थः-आचामः-अवश्रामणं अम्लं-चतुर्थो रसः ताभ्यां निवृत्तमित्यण, एतच्च त्रिविधं उपाधिभेदात् , तद्यथा-ओदनं कुल्माषान् सक्यूँश्च ताअधिकृत्य भवति, तत्प्रत्याख्याति, आचामाम्लं प्रत्याख्यानं करोतीत्यर्थः, आद्यावन्त्याश्चाकारास्नयः पूर्ववत् , 'लेवालेवेणं ति लेपो-भोजन
भाजनस्य विकृत्या तीमनादिना वाऽऽचामाम्लप्रत्याख्यातुरकल्पनीयेन लिप्तता-खरण्टनं विकृत्यादिना लिप्तपूर्वस्य भोजनभाजनस्यैव हस्तादिना संलेखनतोऽलेपोऽलिप्तता, ततश्च लेपश्च अलेपश्च लेपालेपं तस्मादन्यत्र, भाजने विकृत्याद्यवयवसद्भावेऽपि न भङ्ग इत्यर्थः, 'उ-11 दिखत्तविवेगेति शुष्कौदनादिभक्ते पतितपूर्वस्याऽऽचामाम्लप्रत्याख्यानवतामयोग्यस्याद्रवविकृत्यादिद्रव्यस्य उत्क्षिप्तस्य-उद्धृतस्य विवेकोनिःशेषतया त्याग: उत्क्षिप्तविवेकस्तस्मादन्यत्र, भोक्तव्यद्रव्यस्याभोक्तव्यद्रव्यस्पर्शेनापि न भङ्ग इत्यर्थः, यत्तुत्क्षेप्तुं शक्यते तस्य भोजने | भङ्ग एव, 'गिहत्थसंसट्टेणं ति गृहस्थस्य-भक्तदायकस्य संबन्धि करोटिकादिभाजनं विकृत्यादिद्रव्येणोपलिप्तं गृहस्थसंसृष्टं तस्मादन्यत्र
विकृत्यादिसंसृष्टभाजनेन हि दीयमानं भक्तमकल्पनीयद्रव्यमिदं भवति तद् भुखानस्यापि न भङ्ग इत्यर्थः, यद्यकल्प्यद्रव्यरसो बहु न Hज्ञायत इति, 'वोसिरई' अनाचामाम्लं व्युत्सृजति । तथा अभक्तार्थे पञ्चाकाराः, तत्रेदं सूत्रं-'सूरे उग्गए अन्भत्तहँ पञ्चक्खाइ चउव्विहंपि
55555.५.-COL
प्र. सा.९
Jain Education
For Private Personel Use Only
UlHww.jainelibrary.org