________________
प्रव० सारोद्धारे
तत्त्वज्ञानवि०
॥ ४८ ॥
Jain Education
व्याचक्षते, अपार्धप्रत्याख्यानमपि प्रहरत्रयलक्षणं पूर्वार्धप्रत्याख्यानवद्भणनीयं ॥ अथैकाशनप्रत्याख्याने यथा अष्टाऽऽकारास्तथा कथ्यन्ते, तत्रेदं सूत्रम् - " एकासणं पञ्चक्खाइ तिविहंपि आहारं असणं खाइमं साइमं अन्नत्थऽणाभागेणं सहसागारेणं सागारियागारेणं आउंटणपसारेणं गुरुअब्भुट्ठाणेणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरइ.” एकं सकृत् अशनं- भोजनं एकं वा आसनं पुताचलनतो यत्र प्रत्याख्याने तदेकाशनमेकासनं वा, प्राकृते द्वयोरपि एकासणमिति रूपं तत् प्रत्याख्याति एकासनप्रत्याख्यानं करोतीतियावत्, अत्र द्वावाद्यौ अन्त्यावाकारौ च पूर्ववत्, 'सागारियागारणं'ति सह आगारेण-गृहेण वर्तत इति सागारः स एव सागारिका - गृहस्थः स एवाऽऽकारः - प्रत्याख्यानापवादः सागारिकाकारस्तस्मादन्यत्र, गृहस्थ समक्षं हि साधूनां भोक्तुं न कल्पते, प्रवचनाद्युपघातसम्भवात् यत उक्तं - "छक्कायद्यावतोऽवि संजओ दुलहं कुणइ वोहिं । आहारे नीहारे दुर्गुछिए पिंडगहणे य ॥ १ ॥ " [पटूायदयावानपि संयतो दुर्लभां करोति बोधिं । आहारे नीहारे जुगुप्सिते पिण्डग्रहणे च ॥ १ ॥ ] ततश्च भुञ्जानस्य यदि सागारिकः कश्चिदायाति स च यदि चलस्तदा क्षणं प्रतीक्षते स्थिरस्तदा स्वाध्यायादिव्याघातो मा भूदिति ततः स्थानादन्यत्रोपविश्य भुञ्जानस्यापि नैकासनभङ्गः, गृहस्थस्यापि येन दृष्टं भोजनं न जीर्यति तत् प्रमुखः सागारिको ज्ञातव्यः, 'आउंटणपसारणेणं'ति आकुश्वनं-जङ्घादेः सङ्कोचनं प्रसारणं च तस्यैव जङ्घादेराकुचितस्य ऋजूकरणं आकुञ्चने प्रसारणे वाऽसहिष्णुतया क्रियमाणे किश्चिदासनं चलति ततोऽन्यत्र प्रत्याख्यानं 'गुरुअब्भुट्टाणेणं'ति गुरभ्युत्थानार्हस्याचार्यस्य प्राघूर्णकस्य वाऽभ्युत्थानं तमाश्रित्यासनत्यजनं गुर्वभ्युत्थानं ततोऽन्यत्र, गुरुणामभ्युत्थानाद्दत्वादवश्यं भुञ्जानेनाप्युत्थानं कर्तव्यमिति न तत्र प्रत्याख्यानभङ्गः 'पारिठावणिया| गारेणं' ति परिस्थापनं - सर्वथा व्यजनं प्रयोजनमस्य पारिष्ठापनिकं, तदेवाकारस्तस्मादन्यत्र तत्र हि यज्यमाने बहुदोपसम्भवाश्रीयमाणे
For Private & Personal Use Only
४ प्रत्याख्यानद्वारे
नमस्का
रादिप्रत्या
ख्यानेषु आकाराः
॥ ४८ ॥
ainelibrary.org