________________
ALSARAMESSACROSSAGARMA
पौरुष्यां न भङ्गः, ज्ञात्वा तु अर्धभुक्तेनापि तथैव स्थातव्यं यावत्पौरुषी पूर्णा भवति, पूर्णायां ततः परं भोक्तव्यं, अपूर्णा पौरुषीति ४। ज्ञाते तु भुजानस्य भङ्ग एवेति, दिग्मोहस्तु यदा पूर्वामपि पश्चिमेति जानाति तदाऽपूर्णायामपि पौरुष्यां भुखानस्य न भङ्गः, कथमपि
मोहापगमे तु पूर्ववदर्धभुक्तेनापि स्थातव्यं अन्यथा तु भङ्ग एवेति, तथा साधुवचनम्-उद्घाटा पौरुषी इत्यादिकं विभ्रमकारणं तत् श्रुत्वा भुञ्जानस्य न भङ्गः, भुखानेन तु ज्ञाते अन्येन वा केनापि निवेदिते पूर्ववत्तथैव स्थातव्यं, तथा कृतपौरुषीप्रत्याख्यानस्य सहसा सखाततीव्रशलादिदुःखतया समुत्पन्नयोरातरौद्रध्यानयोः सर्वथा निरासः सर्वसमाधिः स एव प्रत्यय:-कारणं स एवाकार:-प्रत्याख्यानापवादः सर्वसमाधिप्रत्ययाकारः, पौरुष्यामपूर्णायामप्यकस्मात् शूलादिव्यथायां समुत्पन्नायां तदुपशमनायौषधपथ्यादिकं भुखानस्य न प्रत्याख्यानभङ्ग इति भावः, वैद्यादिर्वा कृतपौरुषीप्रत्याख्यानोऽन्यस्याऽऽतुरस्य समाधिनिमित्तं यदाऽपूर्णायामपि पौरुष्यां भुङ्क्ते तदा न भङ्गः, अर्धभुक्ते | त्वातुरस्य समाधौ मरणे वोत्पन्ने सति तथैव भोजनत्यागः, सार्धपौरुषीप्रत्याख्यानं पौरुषीवद्वाच्यं, तस्य तदन्तर्गतत्वादिति, पूर्वार्धप्रत्याख्याने त्वेवं सप्ताऽऽकारा:-'सूरे उग्गए पुरिमटुं पच्चक्खाइ चउन्विहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थडणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरइ."अस्यार्थः| 'पूर्वस्य पुरिम' इति (सि० हे० प्रा०८-२-१३५) प्राकृतवचनेन पुरिममिति, एवमन्यत्रापि, ततः पूर्व च तत् अर्ध च पूर्वार्ध-दिनस्याऽऽद्यप्रहरद्वयं प्रत्याख्याति-पूर्वार्धप्रत्याख्यानं करोति, तत्र षडाऽऽकाराः पूर्ववत् , 'महत्तरागारे'ति महत्तरं-प्रत्याख्यानपालनवशाल्लभ्यनिर्ज
रापेक्ष्या बृहत्तरनिर्जरालाभहेतुभूतं पुरुषान्तरेण साधयितुमशक्यं ग्लानचैत्यसङ्घादिप्रयोजनं तदेवाकार:-प्रत्याख्यानापवादो महत्तराकारः * तस्मादन्यत्रेति योगः, यच्चात्रैव महत्तराऽऽकारस्याभिधानं न नमस्कारसहितादौ तत्र कालस्याल्पत्वं अन्यत्र तु महत्त्वं कारणमिति वृद्धा
esGSSSSSSSS
in Education
For Private & Personel Use Only
jainelibrary.org