________________
ASICS KOSMOSA
४प्रत्याख्यानद्वारे दशमाद्धा. प्रत्याख्यानभेदाः
प्रव० सा
षीप्रत्याख्यानवत् , सूत्रं चेदं-"सूरिए उग्गए नमोकारसहियं पच्चक्खाइ चउन्विहंपि आहारं असणं पाणं खाइमं साइम रोद्धारे
अन्नत्थणाभोगेणं सहसागारेणं वोसिरइ" अस्य च सूत्रस्याप्रेतनपौरुष्यादिसूत्राणां च विस्तारवती व्याख्या स्वस्थानादेव ज्ञातव्या, तत्त्वज्ञा
परमाकाराणां स्वरूपपरिज्ञानाय किंचिद्व्याख्यायते-सूर्ये उद्गते सूर्योद्मादारभ्येत्यर्थः, 'नमस्कारेण पञ्चपरमेष्ठिस्तवेन सहितं प्रत्याख्याति नवि०
| 'सर्वे धातवः करोत्यर्थेन व्याप्ता' इति भाष्यकारवचनान्नमस्कारसहितं प्रत्याख्यानं करोति, इदं गुरोर्वचनं शिष्यस्तु प्रत्याख्यामीत्येतदाह,
एवं व्युत्सृजतीत्यत्रापि वाच्यं, कथं प्रत्याख्याति ?, तत्राह-चतुर्विधमपि न पुनरेकविधादिकं, आहारं-अभ्यवहार्य व्युत्सृजतीत्युत्तरैण ॥४७॥
संटङ्कः इदं च चतुर्विधाहारस्यैव भवतीति वृद्धसम्प्रदायः, रात्रिभोजनप्रत्याख्यानव्रततीरणकल्पत्वादस्य, 'अशन'मित्यादिनाऽऽहारचतुर्वि
धकीर्तनं, अत्र नियमभङ्गभयादाकारावाह-'अन्नत्थऽणाभोगेणं सहसागारेणं'ति अत्र पञ्चम्यर्थे तृतीया, अन्यत्रानाभोगात् सहसात काराच्च, एतौ वर्जयित्वेत्यर्थः, तत्राऽनाभोगः-अत्यन्तविस्मृतिः, सहसाकार:-अतिप्रवृत्तियोगानिवर्त्तनं, 'व्युत्सृजति' परिहरति । तथा
पौरुष्यां पडाकाराः, तत्र चैवं सूत्रम्-"पोरिसिं पच्चक्खाइ उग्गए सूरे चउबिहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थ४ऽणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं सबसमाहिवत्तियागारेणं वोसिरई" पुरुषः प्रमाणमस्याः |सा पौरुषी छाया तत्प्रमितकालोऽपि पौरुषी प्रहर इत्यर्थः, तां प्रत्याख्याति, अत्र च 'कालाध्वनोरत्यंतसंयोगे' इति (पा० २-३-५ ) द्वितीया, ततः पौरुषी यावत्प्रत्याख्यानं करोतीत्यर्थः, एवमन्यत्रापि, कथं ?-चतुर्विधमप्याहारमशनादिकं व्युत्सृजतीति, अन्यत्रानाभोगाद्याकारेभ्यः, तत्रानाभोगसहसाकारौ पूर्ववद्, अन्यत्र प्रच्छन्नकालात् दिग्मोहात् साधुवचनात् सर्वसमाधिप्रत्ययाकाराच्च, प्रच्छन्नता च कालस्य धनतरघनाघनपटलेन विस्फुरद्रजसा गुरुतरगिरिणा वाऽन्तरितत्वाद् दिवाकरो न दृश्यते, तत्र पौरुषी पूर्णा ज्ञात्वा भुजानस्यापूर्णायामपि
S
॥४७॥
Jain Education
For Private Personel Use Only
jainelibrary.org