SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ 55%25A ततस्ते यावन्तो नमस्कारसहितादिषु भवन्ति तावत उपदर्शयन्नाह–'दो चेवे'त्यादि गाथात्रयं, द्वावेव नमस्कारे-नमस्कारसहिते 'आकारौं' विधीयमानप्रत्याख्यानापवादरूपी, षट् च पौरुष्यां, तुः पुनरर्थः, सप्तव च पूर्वार्धे एकाशनेऽष्टैव ॥२०३।। सप्त एकस्थानस्य प्रत्याख्यानस्य, तुः समुच्चयार्थः, अष्टैव चाऽऽचाम्ले आकाराः पञ्चैव चाभक्तार्थे-उपवासे, षट् पानकप्रत्याख्याने, चरमे प्रत्याख्याने-दिवसचरमभवचरमरूपभेदद्वयस्वरूपे चत्वार आकाराः ॥ २०४ ॥ पञ्च वा चत्वारो वा अभिग्रहे-अभिग्रहप्रत्याख्याने, निर्विकृतिकेऽष्टी नव वा आकाराः, 'पंच चउरो अभिग्गहे'त्ति यदुक्तं तत्स्वयमेव विवृणोति-'अप्पाउरणे त्यादि, अप्रावरणे-अप्रावरणाभिप्रहे प्रत्याख्याने पञ्चैव, तुशब्द- स्वावधारणार्थत्वाद्भवन्ति शेषेष्वभिग्रहेपु-देशावकाशिकादिषु दण्डकप्रमार्जनादिषु च चत्वार आकारा इति गाथात्रयाक्षरार्थः ॥ २०५॥ भावार्थस्तु निवेद्यते-नमस्कारसहिते प्रत्याख्याने भङ्गपरिहारार्थमनाभोगसहसाकारलक्षणौ द्वावाकारौ ज्ञेयौ, ननु कालस्यानुच्यमानत्वात् सङ्केतप्रत्याख्यानमेवेदं प्रतिभाति तत्कथमद्धाप्रत्याख्यानमभिधीयते ?, सत्यं, सहितशब्देन मुहूर्तस्य विशेषितत्वाददोषः, अब मुहूर्तशब्दो|ऽप्यत्र न श्रूयते तत्कथं तस्य विशेष्यत्वं ?, न खलु गगनारविन्देऽसत्येमन्दामोदसुन्दरमिदमित्यादीनि विशेषणानि तस्य सहृदयैर्विधीयन्ते, अत्र ब्रूमः-अद्धाप्रत्याख्यानमध्ये तावदस्य पाठात् पौरुषीप्रत्याख्यानस्य च वक्ष्यमाणत्वाग्निश्चितं तदर्वाग् मुहूर्त एवावशिष्यते ततस्तस्य विशेष्यत्वं नानुपपन्नं, अथ मुहूर्त्तद्वयादिकमपि कस्मान्न लभ्यते ? यदेकमेव मुहूर्त विशेष्यत इति, उच्यते, अल्पाकारत्वादस्य, पौरुष्यां हि पडाकाराः अस्मिंश्च प्रत्याख्याने आकारद्वयवति स्वल्प एव कालोऽवशिष्यते, स च नमस्कारसहितः पूर्णेऽपि काले नमस्कारपाठमन्तरेण प्रत्याख्यानस्यापूर्यमाणत्वात् , सत्यपि च नमस्कारपाठे मुहूर्ताभ्यन्तरे प्रत्याख्यानभङ्गात् , ततः सिद्धमेतत् मुहूर्त्तमानकालनमस्कारसहितं प्रत्याख्यानमिति, अथ प्रथम एव मुहूर्ते इति कुतो लभ्यते ?, उच्यते, सूत्रे 'सूरे उग्गए' इति वचनप्रामाण्यात् , पौरु 5484-%AASAR Jain Education Erional For Private & Personel Use Only Dhaw.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy