________________
अव० सा
रोद्धारे
तत्त्वज्ञानवि०
॥ ४६ ॥
Jain Educatio
विंई ॥ २०२ ॥ दो चैव नमोकारे आगारा छच पोरसीए उ । सत्तेव य पुरिमडे एक्कासणगंमि अद्वेव ॥ २०३ ॥ सत्तेगट्ठाणस्स उ अद्वेव य अंबिलंमि आगारा । पंचेव अभत्तट्ठे छप्पाणे चरिम चत्तारि ॥ २०४ ॥ पंच चउरो अभिग्गहि निव्विइए अट्ठ नव य आगारा । अप्पाउरणे पंच उ हवंति सेसेसु चत्तारि ॥ २०५ ॥ नवणीओगाहिमगे अद्दवदहिपिसियघयगुडे चेव । नव आगारा एसिं सेसदवाणं च अट्ठेव ॥ २०६ ॥
'अद्धा कालो' इत्यादि, अद्धाशब्देन कालस्तावदभिधीयते, तस्य च कालस्य मुहूर्तपौरुष्यादिकं प्रमाणमप्युपचारात् अद्धन्ति-अद्धां वदन्तीति शेषः, तुशब्दोऽप्यथों भिन्नक्रमे च स च यथास्थानं योजित एव, ततोऽद्धापरिमाणपरिच्छिन्नं यत्प्रत्याख्यानं भवेत्तदिह अद्धाभ्याख्यानं दशमं पूर्वोक्तभाव्यतीत प्रत्याख्यानादीनां चरममित्यर्थः ॥ २०१ ॥ तत्पुनरिदं वक्ष्यमाणं भणितं गणधरैरिति, तदेवाह - 'नवकारे त्यादि, अत्र भीमो भीमसेनभीमन्यायेन नमस्कारशब्दात्परतः सहितशब्दो द्रष्टव्यः, ततो नमस्कारश्च, कोऽर्थः ? - नमस्कारसहितं च पौरुषी च नमस्कारपौरुष्यौ तस्मिन्, नमस्कारविषये पौरुषीविषये चेत्यर्थः, पूर्वार्ध च एकासनं च एकस्थानं चेति समाहारे सप्तम्येकवचने पूर्वार्धविषये एकासनविषये एकस्थानकविषये चरमे - चरमविषये च, तथा आचाम्लं च अभक्तार्थश्च आचाम्लाभक्तार्थौ तत्र आचाम्लविषये उपवासविषये, तथा भवचरमे दिवसचरमेवेति तथा अभिग्रहे - अभिग्रहविषये, तथा 'विगइ'त्ति विकृतिविषये, सप्तम्येकवचनं लुप्तमत्र द्रष्टव्यमिति, दशभेदमिदमद्धाप्रत्याख्यानं || २०२ || नन्वेकासनादिप्रत्याख्यानं कथमद्धाप्रत्याख्यानं ?, न ह्यत्र कालनियमः श्रूयते, सत्यं, अद्धाप्रत्याख्यान पूर्वाणि प्रायेणैकासनादीनि क्रियन्ते इत्यद्वाप्रत्याख्यानत्वेन भण्यन्ते इति प्रत्याख्यानं चापवादरूपाकारसहितं कर्तव्यं, अन्यथा तु भङ्ग एव स्यात्,
For Private & Personal Use Only
४ प्रत्या|ख्यानद्वारे
दशमाद्धा
प्रत्याख्या
नभेदाः
४ ॥ ४६ ॥
jainelibrary.org