________________
Jain Education I
लवङ्गपूगीफलहरीतकीनागरादि ततश्च सर्वमशनं सर्व पानकं खादिमं च सर्वमप्युत्सृजति - परित्यजति स्वादिदमपि सर्व यन्निरवशेषं तद्विज्ञेय| मिति ८ ॥ १९८ ॥ साकेत मिदानीमाह - 'केय 'मित्यादि - 'कित निवासे' इत्यस्य धातोः कित्यते-उष्यते अस्मिन्निति धनि केतो-गृहमु| च्यते सह तेन वर्तन्ते इति सहस्य भावे सकेताः - गृहस्थास्तेषामिदं 'तस्येद' ( पा०४-३-१२० ) मित्यणि साकेतं प्रत्याख्यानं प्रायेण गृहस्थानामेवेदं भवतीति, अथवा केतं - चिह्नमुच्यते सह केतेन - चिह्नेन वर्तते इति सकेतं सकेतमेव प्रज्ञादित्वात्स्वार्थेऽणि साकेतमाहुर्मुनयः । १९९ । तचैवं भवति — श्रावकः कोऽपि पौरुष्यादिप्रत्याख्यानं कृत्वा क्षेत्रादौ गतो गृहे वा तिष्ठन् पूर्णेऽपि पौरुष्यादौ प्रत्याख्याने यावदद्यापि भोजनसामग्री न भवति तावत्क्षणमपि प्रत्याख्यानरहितो मा भूवमित्यङ्गुष्ठादिकं चिह्नं करोति यावदङ्गुष्ठं मुष्टिं ग्रन्थि वा न मुञ्चामि गृहं वा प्रविशामि स्वेदविन्दवो वा न शुष्यन्ति यावदेतावन्तो वा उच्छासा न भवन्ति जलादिमञ्चिकायां यावदेते जलबिन्दवो वा न शुष्यन्ति दीपो वा यावन्न निर्वाति तावन्न भुजेऽहमिति, एतदेवाह - 'अगुंडी' इत्यादि अङ्गुष्ठश्च प्रथिश्च मुष्टिश्च गृहं च स्वेदश्च उच्छ्रासच स्तिबुकच जोइक्खश्वेति समाहारो द्वन्द्वः, जोइक्खशब्दश्च देश्यो दीपे वर्तते, तद्विषये क्रिया सर्वत्र यथोचिता योजनीया, प्रत्याख्यानविचाले कृत्यमिदं, 'अभिग्ग हेसुवि यत्ति केनचित्पौरुष्यादि न कृतं किन्तु केवल एवाभिग्रहः क्रियते यावद् प्रन्ध्यादिकं न छोटयतीत्यादि तत्रापीदं भवतीत्यर्थः, तथा साधोरपीदं भवति, यथाऽद्यापि गुरवो मण्डल्यां नोपविशन्ति अन्यद्वा सागारिकादिकं किञ्चित्कारणमजनि ततः पूर्णेऽपि प्रत्याख्यानावधौ प्रत्याख्यानरहितो मा स्थामित्यङ्गुष्ठादीनि साधुरपि करोतीति ॥ २०० ॥ इदानीमद्धाप्रत्याख्यानमाह -
अद्धा कालो तस्स य पमाणमद्धं तु जं भवे तमिह । अडापञ्चक्खाणं दसमं तं पुण. इमं भणियं ॥ २०९ ॥ नवकारपोरिसीए पुरिमका सँगठाणे य । आयंबिऽभत्तट्टे चरिमेय अभि
For Private & Personal Use Only
jainelibrary.org