SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ - PER नमिऊण जुगाइजिणं वोच्छं भव्वाण जाणणनिमित्तं । पवयणसारुद्धारं गुरूवएसा समासेणं ॥१॥ अत्र च नरिनृत्यमानमानसवृत्तयः सौगताः सङ्गिरन्ते-नन्विदं भवतां गेहेनर्दितमिव प्रतिभासते, यतः सर्वमेवेदं भवद्भिः कथ्यमानं शोभते यदि शब्दार्थयोः कश्चित्सम्बन्धो भवेत् , न चासौ विचार्यमाणश्चारिमाणमञ्चति, द्विविधो हि सम्बन्धः-तादात्म्यलक्षणस्तदुत्पत्तिलक्षXणश्च, तत्र न तावच्छब्दार्थयोस्तादात्म्यलक्षणः सम्बन्धः, स हि य एवार्थः स एव शब्दो य एव शब्दः स एवार्थ इत्येवं भवेत् , एवं च3 18 मोदकादिशब्दोच्चारणे मोदकादिना मुखपूरणं भवेत् क्षुरिकादिशब्दोच्चारणे च वदनपाटनादिकं सम्पद्येत, ततस्तावदसौ शब्दार्थयोन घटा मटाट्यते, न तदुत्पत्तिलक्षणोऽपि सम्बन्धः क्षोदं क्षमते, तथाहि-किं शब्दादर्थ उत्पद्यते ? अर्थाद्वा शब्द इति ?, तत्र न तावच्छब्दादर्थ | उत्पद्यते, घटादयो हि मृदादिभ्य एवोत्पद्यमाना वीक्ष्यन्ते, न शब्दादिति, यदि तु शब्दादपि घटादयो भावा भवेयुस्तदा न मृदादिपरिशीलनक्लेशमनुभवेयुः कुम्भकारादयः, नाप्यर्थाच्छब्दोत्पत्तिः, ताल्वोष्ठपुटदन्तादिभ्यः पुरुषप्रयत्नसहितेभ्य एव शब्दोत्पत्तिदर्शनात् , ततः शब्दार्थयोस्तादात्म्यतदुत्पत्तिलक्षणसम्बन्धद्वयाभावेनाऽऽदिवाक्यमभिधेयादिसूचकं निरर्थकमेवेति, तत्र ब्रूमः-अनभ्युपगतोपालम्भेन कण्ठशोषक्लेशमनुभवद्भिर्भवद्भिरेवमात्मा निरर्थकमेव कदर्थितः, न खल्वस्मामिः शब्दार्थयोस्तादात्म्यतदुत्पत्तिलक्षणः सम्बन्ध इष्यते, किन्तु सर्वसहृदयसम्मतो वाच्यवाचकभावलक्षण एव, तत्र च न किञ्चिद्विरुध्यते, यदि च शब्दस्य प्रामाण्यं नाभ्युपगम्यते तदा शब्दप्रामाण्यमू-ट लानामखिलव्यवहाराणामुच्छेदः स्यात् , उक्तं हि-"लौकिकव्यवहारोऽपि, न यस्मिन्नवतिष्ठते । तत्र साधुत्वविज्ञान, व्यामोहोपनिबन्धनम् ॥१॥” इति, अत्र च बहु वक्तव्यं तत्तु नोच्यते ग्रन्थगौरवभयादिति । तत्र 'नमिऊण' नत्वा 'युगादिजिन' युगं-एतदवसर्पिणीरूपः । कालविशेषस्तत्र आदीयत इत्यादिः-प्रथमः स चासौ जिनश्च-रागद्वेषादिदुर्जयारातिजेता तं ऋषभदेवस्वामिनमित्यर्थः, भवति हि प्रौढ E GRESAS PESCATOR Jain Education For Private Personel Use Only linelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy