________________
प्रव० सारोद्धारे तत्त्वज्ञानवि०
GROHS
इह हि शिष्टाः कचिदभीष्टे शास्त्रप्रकरणादिवस्तुनि प्रवर्तमानाः श्रेयस्काम्यया विशिष्टाभीष्टदेवतानमस्कारपुरस्कारेणैव प्रवर्तन्ते, स च
मङ्गलायद्यपि कायमनोभ्यामपि क्रियमाणो निखिलविलसद्विघ्नविनाशकत्वेन प्रारिप्सितशास्त्रप्रकरणादिपरिसमाप्तये सम्पनीपद्यते तथापि शास्त्रादौ भिधेयादि श्रोतारः सर्वेऽपि शास्त्रादिश्रवणरसिकान्तःकरणाः सकलविघ्नसङ्घातविघातनिमित्तमवश्यमभिमतदेवतास्तवामिधानपूर्वमेव प्रवर्तन्तामिति श्रोतृणामभीष्टदेवतास्तवविषयमनीषोन्मेषपरिग्रहार्थमादाविष्टदेवतास्तवोऽभिधेयः, तथा यत्किमपि शास्त्रं प्रकरणादि वा कर्तुमिष्यते तत्रावश्यमादौ प्रेक्षावतां प्रवृत्त्यर्थमभिधेयममिधातव्यं इतरथा किमत्र शास्त्रे प्रकरणादौ वाऽभिधेयमिति संशयाना न तत्र ते प्रवर्तेरन् , वदेयुश्च * यथा-नाऽऽरब्धव्यमिदं शास्त्रं प्रकरणादि वा अभिधेयशून्यत्वात् काकदन्तपरीक्षावदिति, यदाहुः-"श्रुत्वाऽभिधेयं शास्त्रादौ, पुरुषार्थोपकारकम् । श्रवणादौ प्रवर्तन्ते, तजिज्ञासादिनोदिताः ॥ १॥ नाऽश्रुत्वा विपरीतं वा, श्रुत्वाऽऽलोचितकारिणः । काकदन्तपरीक्षादौ, प्रवर्तन्ते कदाचन ॥२॥” इत्यादि, तथा अभिहितेऽप्यभिधेये न प्रयोजनश्रवणमन्तरेण सहृदयास्तदाद्रियन्ते, प्रेक्षावत्ताक्षतिप्रसङ्गात् , यदाहुः| "प्रयोजनमनुद्दिश्य, न मन्दोऽपि प्रवर्तते । एवमेव प्रवृत्तिश्चेञ्चैतन्येनास्य किं भवेत् ? ॥ १॥” अभिदध्युश्च ते यथा-नाऽऽरम्भणीयमिदं ||शास्त्रं प्रयोजनशून्यत्वात्कण्टकशाखामर्दनवदिति, ततः शास्त्रप्रकरणादिप्रारम्भप्रयासनिष्फलताशङ्काशङ्कसमुद्धरणाय शास्त्रप्रकरणादी प्रयोज
नमपि वक्तव्यं, तथा प्रयोजने दर्शितेऽपि न परम्परया सर्वज्ञमूलताऽवगतिमन्तरेण विविधातीन्द्रियार्थसार्थप्रतिपादके शाखादी सुधियः प्रवृत्तिमातन्वीरन् , प्रतिपादयेयुश्च ते यथा-नारम्भणीयमिदं शास्त्रादि सम्बन्धवन्ध्यत्वात् खेच्छाविरचितशास्त्रवदिति, ततस्तेषां शास्त्रप्र-11 ॥१॥ करणादिप्रवृत्तौ विशिष्टादरनिमित्तं परम्परयाऽहन्मूलताख्यापनार्थमादौ गुरुपर्वक्रमलक्षणः सम्बन्धोऽपि वक्तव्य इत्यादि परिभाव्य प्रक्षावतां प्रवृत्त्यर्थं पूर्वप्रयुक्तप्रयोगाणां चासिद्धतादिदोषोद्भावनार्थमिमामादिगाथामाह
Jain Education
a
l
For Private & Personel Use Only
A
njainelibrary.org