________________
Jain Education
श्रेष्ठिदेवचन्द्रलालभाइ–जैनपुस्तकोद्धारे ग्रन्थाङ्कः॥ श्रीजिनाय नमः ॥
श्रीमन्नेमिचन्द्रसूरिप्रवरनिर्मितः प्रवचनसारोद्धारः ।
श्रीमद्देव भद्रान्तिषच्छ्रीमत्सिद्ध सेनसूरि सूत्रिततत्त्वज्ञानविकाशिनीटीकायुक्तः प्रारभ्यते ।
सन्नद्धैरपि यत्तमोभिरखिलैर्न स्पृश्यते कुत्रचिच्चञ्चत्कालकलाभिरप्यनुकलं यन्नीयते न क्षयम् । तेजोभिः स्फुरितैः परैरपि हठादाक्रम्यते यन्न तज्जैनं सर्वजगत्प्रकाशनपटु ज्योतिः परं मन्दतु ॥ १ ॥ यो ध्यानेन निमूलकाषमकषद् द्वेषादिविद्वेषिणो यत्रैलोक्यविलोकनैकर सिकं ज्योतिः किमप्यातनोत् । यः सद्भूतमशेषमर्थमवदत् दुर्वादिवित्रासकृद्देवार्च्यः शिवतातिरस्तु स विभुः श्रीवर्धमानः सताम् ॥ २ ॥ स्वगुरूणामादेशं चिन्तामणिसोदरं समासाद्य । श्रेयस्कृते करोमि प्रवचनसारस्य वृत्तिमिमाम् ॥ ३ ॥
For Private & Personal Use Only
15549-6
Lainelibrary.org