SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ प्रव० सा- रोद्धारे तत्त्वज्ञानवि० | मङ्गलाभिधेयादि. ॥२॥ विशेषणादनुक्तेऽपि विशेष्ये प्रतिपत्तिः, यथा-ध्यानैकतानमनसो विगतप्रचाराः, पश्यन्ति यं कमपि निर्मलमद्वितीयम्" इत्यत्र ध्या नैकतानमनसो विगतप्रचारा इति प्रौढविशेषणसामाद्योगिन इति विशेष्यस्यानुक्तस्यापि प्रतिपत्तिस्तथाऽत्रापि नाभेयदेवस्येति, 'वोच्छं' ४ वक्ष्ये 'भव्यानां' निर्मलनिजगुणनिकरमाहात्म्येन सिद्धिगमनयोग्यानां प्राणिनां ज्ञाननिमित्तं प्रवचनस्य-द्वादशाझ्यादिशासनस्य सारो द्धार-प्रधानकतिपयपदार्थोद्धारं 'गुरूपदेशाद्' गुरुकथनात् 'समासेन' संक्षेपेणेति गाथापदार्थः । तत्र 'नमिऊण जुगाइजिणं' इत्यनेन | युगादिदेवस्य नमस्कारकरणेन विवक्षितशास्त्रादौ सकलकल्याणमूलं भावमङ्गलं 'वक्ष्ये प्रवचनसारोद्धार'मित्यनेनाभिधेयं भव्यानां ज्ञाननिमित्त'मित्यनेन प्रयोजनं च प्रत्यपादि, तच्च द्वेधा-प्रकरणकर्तुः श्रोतुश्च, एकैकमपि द्विविधं-अनन्तरं परम्परं च, तत्र प्रकरणकर्तुरनन्तरं प्रयोजनं प्रवचनसारभूतकतिपयपदार्थान् प्रतिपादयतः सत्त्वानुग्रहः, परम्परं तु परमपदावाप्तिः, भव्यसत्त्वानुग्रहप्रवृत्तो हि निरक्करसुखनिकरप्राज्यसाम्राज्यनिसर्गरमणीयरमणीवर्गवैभवोद्भासितस्वर्गप्राप्त्यादिपरम्परया परमपदमवश्यमवाप्नोत्येव, यत उक्तम्-"सर्वज्ञोक्तोपदेशेन, यः सत्त्वानामनुग्रहम् । करोति दुःखतप्तानां, स प्राप्नोत्यचिराच्छिवम् ॥ १॥" श्रोतृणां पुनरनन्तरप्रयोजनं यथावत्प्रवचनसारभूतकतिपयपदार्थपरिज्ञानं, परम्परप्रयोजनं तु तेषामपि परमपदप्राप्तिरेव, तथाहि-ते यथावद्विज्ञातप्रवचनसारभूतकतिपयपदार्थाः प्रकृत्यसारात्संसाराद्विरज्यन्ते ततः परमपदावाप्तये निःसपनं प्रयत्नमाचरन्ति ततो निखिलश्रेयस्कारकं निःश्रेयसमासादयन्ति, यत उक्तम्-"सम्यग्भावपरिज्ञानाद्विरक्ता भवतो जनाः । क्रियाऽऽसक्ता ह्यविनेन, गच्छन्ति परमां गतिम् ॥ १॥” इति, सम्बन्धस्तु द्विधा-उपायोपेयलक्षणो गुरुपर्वक्रमलक्षणश्च, तत्र प्रथमस्तर्कानुसारिणः प्रति, स चाय-वचनरूपापन्न शास्त्रमिदमुपायः, उपेयं सम्यगेतच्छास्त्रार्थपरिज्ञानं मुक्तिपदं वा, तस्याप्यतः पारम्पर्येण प्राप्तेः, श्रद्धानुसारिणस्तु प्रति गुरुपर्वक्रमलक्षणसम्बन्धः, तत्क्रमश्चार्य-प्रथमं हि घनाघनधनपटल इवाति ॥२॥ Jan Education For Private Personal use only Emelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy