SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Jain Educatio अनयोर्मिलने कोटिसहितं, एवमाचाम्लनिर्विकृति कैकासनकै कस्थानेष्वपीति ३ ॥ १९९ ॥ यदाहुर्गणभृतः – “पढवणओ य दिवसो पश्चक्खाणस्स निट्टवणओ य । जहियं समिति दोनिवि तं भन्नइ कोडिसहियंति” ॥१॥ इति [ प्रस्थापकश्च दिवस : प्रत्याख्यानस्य निष्ठाप कश्च यत्र समितो द्वावपि तद् भण्यते कोटीसहितमिति ॥ १ ॥ ] 'हट्ठेण' इत्यादि हृष्टेन - नीरोगेण ग्लानेन वा-सरोगेण वा अमुकं | तपः- पष्ठाष्टमादि अमुकस्मिन् दिने 'नियमेन' निश्चयेन मयेति शेषः 'कायन्वो'त्ति कर्तव्यं, प्राकृतत्वात्पुंसा निर्देशः, नियन्त्रितमिदं | प्रत्याख्यानं जिना ब्रुवते ४ ॥ ९९२ ॥ इदं च प्रत्याख्यानं न सर्वकालं क्रियते, किं तर्हि ?, नियतकालमेव, तथा चाह - ' चउदसे'त्यादि, चतुर्दशपूर्विषु - चतुर्दशपूर्वधरेपु जिनकल्पिकेषु प्रथम एव संहनने - वर्षभनाराचाभिधेये एतत् - नियन्त्रितं प्रत्याख्यानं व्यवच्छिन्नमेव, अत्राऽऽह - ननु तस्मिन्नपि काले चतुर्दशपूर्वधरादय एव कृतवन्तः स्थविरैस्तु न कृतमेवेदमित्याह — 'धेरावि तया करेसीय' स्थविरा अपि तदा - पूर्वधरादिकाले अकार्षुः चशब्दादन्येऽप्यस्थविरा: प्रथमसंहननिन इति ॥ १९३ ॥ साकारमिदानीमाह - 'मह - यरेत्यादि, आ-मर्यादया मर्यादाख्यापनार्थमित्यर्थः क्रियन्ते - विधीयन्ते इत्याकाराः - अनाभोगसहसाकार महत्तराकारादयः, अयं महान् अयं महानयमनयोरतिशयेन महान्महत्तरः, ( अतिशये तरतमपाविति १-१ -२२ पाणि० ) महत्तर एवाकारो महत्तराकारः स आदिर्येषां ते च ते आकाराश्च तैर्युक्तं साकारमभिधीयते, कोऽर्थः ? - मुजिक्रिया प्रत्याख्यानेन मया निषिद्धा, परमन्यत्र महत्तराकारादिभिर्हेतुभूतैः एतेभ्योऽन्यत्रेत्यर्थः, एतेषु सत्सु भुजिक्रियामपि कुर्वतो न भङ्ग इति यत्र भक्तपरित्यागं करोति तत् साकारमिति ५ । अनाकार मिदानीमाह - 'आकार' इत्यादि, आकारैः - महत्तरादिभिर्यद्विरहितं पुनर्भणितमनाकारं नाम तत् ॥ १९४ ॥ 'किंतु' इत्यादि, किंच - केवल मिहानाकारेऽपि भनाभोगः सहसाकारञ्च द्वावाकारौ भणितव्यौ येन कदाचिदनाभोगतः - अज्ञानतः सहसा वा रभसेन तृणादि मुखे क्षिपे ional For Private & Personal Use Only w.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy