________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
॥ ४४ ॥
Jain Education
चिंधं सकेयमेवाहु सोके ॥ १९९ ॥ अंगुट्ठी गंठी मुट्ठी धेरसेयुस्सासचिवुगजोईखे । पञ्चक्खा - विचाले कि मिणमभिग्गहेसुवि य ॥ २०० ॥
'भावि अईयमि'त्यादि भावि - अनागतं अतीतं - पूर्वकालकरणीयं कोटिसहितं चः समुच्चये नियन्त्रितं चः पूर्ववत् साकारं -सहाकारैद्वर्तते अनाकारं विगताऽऽकारमाकाररहितं परिमाणवत् निरवशेषमष्टमकम् ।। १८७ || 'साकेय 'मित्यादि साकेतं च कृतसङ्केतं नवमं, तथाऽद्धाप्रत्याख्यानं दशमकमिति । तत्र यत्सङ्केतप्रत्याख्यानं तदष्टधा भवति, यच्चाद्धाप्रत्याख्यानं तद्दशधा भवेदिति गाथासङ्क्षेपार्थः ॥ १८८ ॥ इदानीं मूलतोऽपि सर्वाणि प्रत्याख्यानानि क्रमेण व्याख्यायन्ते तत्र भाविप्रत्याख्यानस्वरूपमिदं - ' होहीपजोसवणे'त्यादि सार्द्धगाथा, भविष्यति पर्युषणादिपर्व, तत्र चाष्टमादि तपोऽवश्यं समाराधनीयं तत्र पर्युषणादौ न तपः अष्टमाद्यं भवेत् कर्तुं मे-मम, केन हेतुनेत्याह - 'गुरुगणे'ति गुरूणां - आचार्याणां गणस्य - गच्छस्य ग्लानस्य - रोगाभिभूतस्य शैक्षकस्य - नूतनप्रत्राजितस्य तपस्विनोविकृष्टादितपश्चरणकारिणो यत्कार्य - विश्रामणाभक्तपानाऽऽनयनादिलक्षणं तेन यदाकुलत्वं तेन हेतुना ॥ १८९ ॥ 'इय चिंती' त्यादि - इति चिन्तयित्वा पूर्वमेव - पर्युषणादिपर्वणोऽर्वागेव यत्क्रियते तदनागतं तप इति 'विन्ति'त्ति ब्रुवते १ । अतीतं पुनरिदं - 'तमइकतं' इति गाथोत्तरार्ध, तदतिक्रान्तमतीतमित्यर्थः तेनैव हेतुना - गुरुगणादिकार्यव्याकुलतालक्षणेन तप्यते तपः करोति यदूर्ध्व पर्युषणादिपणि निवृत्तेऽपीत्यर्थः २ ॥ १९० ॥ कोटीस हितमाह - 'गोसे' त्ति, प्रभातेऽभक्तार्थ - उपवासं यः कृत्वा तं -उपवासं करोति द्वितीयप्रभा - तेऽपि इति कोटीद्विकमिलने पूर्वदिनकृतोपवासप्रत्याख्याननिष्ठापनालक्षणाया द्वितीयदिनप्रभात क्रियमाणोपवासप्रस्थापनालक्षणायाश्च कोटेमिलने तस्य कोटी सहितमिति नाम्ना प्रत्याख्यानं, एवमष्टमादिपु एकतः कोटिद्वयं निष्ठापनारूपमन्यतश्च तृतीयोपवासस्य प्रस्थापनारूपं,
For Private & Personal Use Only
४ प्रत्या
ख्यानद्वारे
दशविध
प्रत्याख्यानानि
॥ ४४ ॥
jainelibrary.org