SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञा नवि० ॥ ४३ ॥ Jain Education पञ्च वा चाउम्मासिए संवच्छरिए य सत्त उक्कोसेणं तिसुवि ठाणेसु सव्वे खामिज्जतित्ति' [ एवं जघन्येन त्रयो वा पथ्य वा चातुर्मासिके सांवत्सरिके च सप्त उत्कर्षेण त्रिष्वपि स्थानेषु सर्वे क्षाम्यन्ते ] ॥ १८६ ॥ इति तृतीयं प्रतिक्रमणद्वारं । चतुर्थं प्रत्याख्यानद्वारमिदानीं तत्र च प्रतीति - अविरतिस्वरूपप्रभृतिप्रतिकूलतया आमर्यादया आकारकरणस्वरूपया आख्यानं-कथनं प्रत्याख्यानं, तद् द्वेधा - मूलगुणरूपमुत्तरगुणरूपं च मूलगुणा यतीनां पञ्च महाव्रतानि श्रावकाणामनुव्रतानि, उत्तरगुणास्तु यतीनां पि|ण्डविशुद्ध्यादय: श्रावकाणां तु गुणत्रतशिक्षात्रतानि, मूलगुणानां हि प्रत्याख्यानत्वं हिंसादिनिवृत्तिरूपत्वात्, उत्तरगुणानां तु पिण्डविशुद्ध्यादीनां दिग्वतादीनां च प्रतिपक्षनिवृत्तिरूपत्वात्, तत्र च स्वयं प्रत्याख्यानकाले विनयपुरस्सरं सम्यगुपयुक्तः श्रीगुरुवचनमनूच्चरन् प्रत्याख्यानं कुरुते तत्र च प्रत्याख्याने चतुर्भङ्गी, यथा—स्वयं प्रत्याख्यानस्वरूपं जानन् ज्ञस्यैव गुरोः पार्श्वे करोतीति प्रथमो भङ्गः, गुरोर्झस्य स्वयमजानन् करोतीति द्वितीयः, शिष्यस्य ज्ञत्वे गुरोरज्ञत्वे तृतीयः, गुरोरज्ञत्वे शिष्यस्य चाज्ञत्वे चतुर्थः, न चेदं स्वमनीषिकयैवोच्यते, सिद्धान्तेऽभिहितत्वात् यदाह - " जाणगो जाणगसगासे अजाणगो जाणगसगासे जाणगो अजाणगसगासे अजाणगो अजाणगसगा से " [ज्ञो इसकाशे अज्ञो ज्ञसकाशे ज्ञोऽज्ञसकाशे अज्ञोऽज्ञसकाशे ॥ इत्यादि, तत्र प्रथमो भङ्गः शुद्धः, द्वयोरपि ज्ञायकत्वात्, द्वितीयोऽपि शुद्धो यदा गुरुर्जानानः स्वयमजानानं शिष्यं सङ्क्षेपतो बोधयित्वा प्रत्याख्यानं कारयति अन्यथा त्वशुद्ध एव, तृतीयोऽप्यशुद्धः, परमेषोऽपि तथाविधगुरोरप्राप्तौ गुरोर्बहुमानात् गुरोः सम्बन्धिनं पितृपितृव्यमातृमातुलकभ्रातृशिष्यादिकमज्ञमपि साक्षिणं कृत्वा यदा १ ॥ ४३ ॥ प्रत्याख्याति तदा शुद्धः, चतुर्थश्वाशुद्ध एवेति, तत्रोत्तरगुणप्रत्याख्यानं प्रतिदिनोपयोगित्वेन तावद् भण्यते तच्च दशधा तदाह भावि अईयं कोडी सहियं च नियंटियं च सागारं । विगयागारं परिमाणैवं निश्वसेसमट्टमयं nal For Private & Personal Use Only ४ प्रत्याख्यानद्वारे दशविधप्रत्याख्यानानि jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy