SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ SAKSARESHERSX च श्लोकदशकरूपायां क्षिप्तायां सार्धे द्वे शते, ततो भवतो नमस्कारस्स चाष्टौच्छासस्य चिन्तने द्वौ श्लोको, मिलिताश्च द्वे शते द्विपञ्चाशदधिके भवत इति ॥ १८४ ॥ ननु कस्मिन् कायोत्सर्गे कियन्तः पादा भवन्तीत्याह-'सायसय'मित्यादि, 'साये' त्यत्रानुस्वारलोपः प्राकृतत्वात्कृतः, ततः सायं-सन्ध्यायां प्रतिक्रमणे शतं पादानां, तत्र श्लोकस्य चतुष्पादरूपत्वात् पञ्चविंशतिश्लोकानां चतुर्भिर्गुणने शतं पादानां भवति, 'गोसेति प्राभातिकोद्योतकरद्वयेऽर्ध शतस्य भवति, पादानां पञ्चाशदित्यर्थः, 'तिन्नेवर सय'त्तिपाक्षिकप्रतिक्रमणकायोत्सर्गे द्वादशोद्योतकराणां शतत्रयं पादानां भवति, द्वादशानां पञ्चविंशत्या गुणने शतत्रयसम्भवादिति, 'पंच य चाउम्मासे'त्ति चातुर्मासिकप्रतिक्रमणोद्योतकरविंशतौ चिन्त्यमानायां पञ्च शतानि पादानां भवन्ति, विशतेः पञ्चविंशत्या गुणने पञ्चशतसम्भवादिति, 'वरिसे'त्ति वार्पिकप्रतिक्रमणोत्सर्गोद्योतकरचत्वारिंशतो नमस्कारस्य च चिन्तने अष्टोत्तरसहस्रं पादानां भवति, चत्वारिशतः पञ्चविंशत्या गुणने सहस्रसम्भवात् , नमस्कारस्य चाष्टपादरूपत्वाञ्चेति, पदशब्देन चात्र पाद एव ज्ञातव्यः, प्राकृतत्वेन ह्रस्वकरणात् , यद्वा पादस्यैवायं पशब्दः पर्यायो ज्ञेय इति ।। १८५ ॥ ननु कुत्र प्रतिक्रमणे कियन्ति क्षमणकानि भवन्तीत्याह-'देवसियेत्यादि, इह देवसिकग्रहणेन रात्रिकपाक्षिकयोरपि ग्रहणं, तुल्यवक्तव्यत्वात् , ततो देवसिकरात्रिकपाक्षिकेपु चातुर्मासिके सांवत्सरिके च पर्वणि &ा प्रतिक्रमणमध्ये' प्रतिक्रमणे क्रियमाणे 'मुनयः' साधवः क्षम्यन्ते, तत्र त्रयः पञ्च सप्त च 'क्रमात्' यथासङ्ख्येनेत्यर्थः, अयमभिप्राय: देवसिकरात्रिकयोस्त्रयः साधवः क्षाम्यन्ते, पाक्षिकेऽपि त्रयः, यदुक्तमावश्यकचूर्णौ पाक्षिकप्रतिक्रमणप्रस्तावे-एवं जहनेणं तिन्नि, उकोसेणं सब्वेवित्ति [ एवं जघन्येन त्रयः उत्कृष्टतः सर्वेऽपि ] चातुर्मासिके पञ्च सांवत्सरिके च सप्तेति, वृद्धसामाचारी तु दैवसिकरात्रिकयोस्त्रयः पाक्षिके पच चातुर्मासिकसांवत्सरिकयोस्तु सप्त, यदुक्तं पाक्षिकवृत्तौ सम्बुद्धक्षमणप्रस्तावे-'एवं जहन्नेणं तिन्नि वा प्र. सा.८ Jan Education For Private Personal use only ww.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy