________________
SM-ACHAR
'मुहपुत्तीवंदणयेत्यादि, तत्र चतुर्दशीपर्वणि देवसिकं प्रतिक्रमणं 'तिविहेण पडिकंतो वंदामि जिणे चउवीसं' इत्येतदन्तं विभाष | 'देवसियं आलोइय पडिकंतं इच्छाकारेण संदिसह भगवन पक्खियमुहपत्ती पडिले हुं ?' गुरुणा 'पडिलेह'त्ति भणिते क्षमाश्रमणं दत्त्वा मुखपोत्तिका प्रत्युपेक्षते, तद्नु वन्दनकं ददाति, ततः सम्बुद्धानां-गीतार्थानां पञ्चानां क्षामणकं विधत्ते, तथेति समुच्चये, तत आलोचनं कुर्वन्ति, तत्र च गुरुश्चतुर्थ दत्ते, चातुर्मासिकसंवत्सरयोश्च षष्ठाष्टमे, ततः पुनर्वन्दनक, ततः प्रत्येकं यतीनां क्षामणानि कुर्वन्ति, ततः पुनर्वन्दनकं, ततः पाक्षिकसूत्रं त्रिशतं गुरोरादेशादूर्ध्वस्थितो भणत्येकः, शेषाश्चोर्ध्वस्थिता एव विकथादिरहिताः शृण्वन्ति, यदि च बालवृद्धादयो वा तावती वेलामूर्ध्वस्थिता न शक्नुवन्ति स्थातुं, तदा क्षमाश्रमणं दत्त्वा गुरूननुज्ञाप्योपविश्य निद्रादिरहिताः प्रवर्धमानशुभभावाः शृण्वन्ति ॥ १८१ ॥ सूत्रसमाप्तौ पुनरुपविश्य 'सुत्तति प्रतिक्रमणसूत्रं भणन्ति ततोऽभ्युत्थानं कृत्वा सामायिकादिसूत्रं च भणित्वा द्वादशोद्योतकरचिन्तनमुत्सर्ग करोति, पारयित्वा च 'पोत्ति'त्ति मुखपोतिकाप्रत्युपेक्षणं, ततो वन्दनकं, / तथा चेति समुच्चये, 'पजंते'त्ति वन्दनकपर्यन्ते क्षामणकपञ्चकं कुर्वन्तीति पाक्षिकप्रतिक्रमणविधिः ॥ १८२॥ चातुर्मासिके वार्षिकेऽपि च प्रतिक्रमणेऽयमेव विधिः, केवलमत्र सप्त सम्बुद्धक्षामणानि क्रियन्ते, महति च चातुर्मासिके कायोत्सर्गे विंशतिरुद्योतकराश्चिन्त्यन्ते, वार्षिके च चत्वारिंशदेको नमस्कारश्चेति, तद्नु पूर्वप्रतिक्रान्तदेवसिकाच्छेषं प्रतिक्रमणं कुर्वन्ति, पाक्षिकादिषु त्रिषु | श्रुतदेवताकायोत्सर्गस्थाने भुवनदेवताकायोत्सर्गः क्रियते ननु देवसिकप्रतिक्रमणादिषु कियन्तश्चतुर्विंशतिस्तवाश्चिन्त्यन्ते ? तत्राह
चत्तारि दो दुवालस वीस चत्ता य हुँति उज्जोया।देसियं राइय पक्खिय चाउम्भासे य वैरिसे य ॥१८३॥ पणवीस २५ अद्धतेरस १२३ सलोग पन्नत्तरी ७५ य बोद्धव्वा । सयमेगं पणवीसं १२५ ये
ACCORAGRAMMES
Jain Educatan
For Private & Personal Use Only
Rampainelibrary.org