SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ ४१ ॥ Jain Education उत्सर्ग एकैकोद्योतकरचिन्तनं श्रुतज्ञानस्य शुद्धिकृते तृतीयः, नवरं केवलं तत्रेदं - वक्ष्यमाणं चिन्तयति तदेवाहं ॥ १७९ ॥ ' सइए निसे'त्यादि, तृतीये उत्सर्गे निशातिचारं चिन्तयति, चरिमे कायोत्सर्गे किं तपः करिष्यामीति ?, षण्मासान् एकदिनादिहान्या यावत्पौरुष 'नमोवे 'ति नमस्कारसहितं वा यावच्चिन्तयेदिति । १८० ।। ननु दैवसिकप्रतिक्रमणे प्रथमोत्सर्गेऽतिचाराश्चिन्त्यन्ते द्वितीयादिकायोत्सर्गेषु च चारित्रादिशुद्धयः क्रियन्ते, प्राभातिकप्रतिक्रमणे च किमिति वैपरीत्येनोत्सर्गकरणमिति, अत्रोच्यते, प्राभातिक प्रतिक्रमणे प्रथमकायोत्सर्गे प्रबुद्धोऽप्यद्यापि निद्राघूर्णमानलोचनः किवि| दालस्यवश्यशरीरः सम्यग्निशातिचारानशेषानपि स्मरन्न पटूयते, निद्राघूर्णितत्वेन च परस्परं यतीनां संघट्टनाद्दोषो भवति, उत्सर्गानन्तरं च कृतिकर्मादिकं क्रियमाणं नास्खलितं सम्पद्यते, चारित्रदर्शनशुद्धिविधायिनोः कायोत्सर्गयोः कृतयोर्निद्रामुद्रायां च लोचनयो| रपगतायामालस्ये च शरीरादपगते सञ्जातपाटवः सुखेनैव सर्वान्निशातिचारान् ज्ञानशुद्धिहेतुतृतीयोत्सर्गे स्मरति सांधूनां परस्परघट्टनां | रक्षति कृतिकर्मादिकं चास्खलितं यथास्थितमनलसः करोतीति प्रथमतः प्राभातिकप्रतिक्रमणे चारित्रशुद्ध्यादिकायोत्सर्गः पञ्चादतिचारकायोत्सर्ग इति । यदाहुः समयवादिनः " निद्दामत्तो न सरइ अइयारे कायघट्टणन्नोन्ने । किइअकरणदोसा वा गोसाई तिन्नि उस्सगा” ॥ १ ॥ [ निद्रावान् न स्मरति अतीचारान् अन्योऽन्यं । कायघट्टना कृत्यकरणदोषा वा ततः प्रभाते आदौ त्रय उत्सर्गाः ॥ १ ॥ ] इति प्राभातिक प्रतिक्रमणविधिः ॥ इदानीं पाक्षिकप्रतिक्रमण विधिमाह - मुहपत्तीवंदणयं संबुद्धाखामणं तहालोए । वंदण पत्तेयं खामणाणि वंदणयसुत्तं च ॥ १८९ ॥ सुतं अन्भुट्ठाणं उस्सग्गो पुत्तिवंदणं तह य । पजंते खामणयं एस विही पक्खिपडिक्कमणे ॥ १८२ ॥ tional For Private & Personal Use Only চ ३ प्रतिक्रमणद्वारे पाक्षिकादि विधिः ॥ ४१ ॥ www.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy