SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ॥१७५ ॥दसणनाणुस्सग्गो सुयदेवयखेत्तदेवयाणं च । पुत्तियवंदण थुइतिय सक्कथय थोस दे. वसियं ॥ १७६॥ 'चिइवंदणे'त्यादि, त्रसस्थावरजन्तुरहिते प्रेक्षितप्रमार्जिते स्थण्डिले ईर्यापथिकी प्रतिक्रम्य प्रथमं चैत्यवन्दनं विधेयं, तदनु आचार्या-3 दीनां क्षमाश्रमणानि दत्त्वा भूमिनिहितशिराः सकलदेवसिकातिचाराणां मिथ्यादुष्कृतं दत्त्वा सामायिकपूर्वक 'इच्छामि ठाइ काउस्सग्गं' इत्यादिसूत्रं भणित्वा देवसिकातिचारचिन्तनार्थ कायोत्सर्ग करोति, कायोत्सर्गे च बहुव्यापाराः साधवो यावदेकगुणान् देवसिकातिचारांश्चिन्तयन्ति तावदल्पहिण्डनको गुरुर्द्विगुणं चिन्तयति, ततो गुरुणोत्सारिते कायोत्सर्गे साधव उत्सारयन्ति, ततः पारयित्वा 'लोगस्सुज्जोयगरे' इत्यादि भणित्वा उपविश्य 'पोत्तियपडिलेह'त्ति पोतिकाया-मुखपोत्तिकायाः प्रतिलेख:-प्रतिलेखनं, प्रथमैकवचनस्य प्राकृतत्वाल्लोपो यथायथं द्रष्टव्यः, तदनु 'वंदण'त्ति वन्दनकं दातव्यं, 'आलोए'त्ति तत आलोचनं कार्य, कायोत्सर्गचिन्तिताति-|| चारांश्च गुरोः कथयति, तदनूपविश्य 'सुत्तति सामायिकादिसूत्रं भणति साधुः स्वकीयं, श्रावकस्तु स्वकीयं, यावद् 'वंदामि जिणे चउवीसं' इति, 'वंदण'त्ति तदनु वन्दनकं ददाति, 'खामण'त्ति तदनु क्षामणकं कुरुते गुर्वादीनां, तत्र चायं विधिः-गुरुमादिं कृत्वा || ज्येष्ठानुक्रमेण सर्वान् क्षामयति, आचीर्ण तु यदि पञ्चकादिर्गणो भवति तदा त्रितयं क्षमयति, अथ पञ्चकमध्ये तदा ज्येष्ठमेवैकमिति, एवं प्राभातिकप्रतिक्रमणादिष्वपि, तदनु 'वंदणय'त्ति वन्दनकं ददाति, चः समुच्चये, इदं च वन्दनकमल्लियावणवंदणयमित्युच्यते, आचार्यादीनामाश्रयणायेत्यर्थः 'चरित्तउस्सग्गो'त्ति तदनु चारित्रविशुद्ध्यर्थ कायोत्सर्गः कार्यः, तत्रोद्योतकरद्वयं चिन्तनीयम् ॥ १७५॥ |'दसणे'त्यादि, ततो दर्शनशुद्धिनिमित्तमुत्सर्गः, तत्रैकोद्योतकरचिन्तनं, तद्नु ज्ञानशुद्धिनिमित्तमुत्सर्गः, तत्राप्येकोद्योतकरचिन्तनं 46 Jain Education For Private & Personel Use Only P njainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy