________________
प्रष० सा
रोद्धारे
तत्वज्ञा
नवि०
॥ ३९ ॥
Jain Educatio
[ अतीतं प्रतिक्राम्यामि प्रत्युत्पन्नं संवृणोमि अनागतं प्रत्याख्यामि ] तत्कथं त्रिकालविषयता प्रतिपाद्यते ?, तत्रोच्यते, अत्र प्रतिक्रमण| शब्दोऽशुभयोगनिवृत्तिमात्रार्थः, यदुक्तम् - "मिच्छत्तपडिक्कमणं तद्देव अस्संजमे य पडिकमणं । कसायाण पडिकमणं जोगाण य अप्पसस्थाणं ॥ १ ॥ [ मिध्यात्वप्रतिक्रमणं तथैवासंयमस्य प्रतिक्रमणं । कषायाणां प्रतिक्रमणं योगानां चाप्रशस्तानाम् ॥ १ ॥ ] ततश्च निन्दा - द्वारेणाशुभयोगनिवृत्तिरूपमतीतविषयं प्रतिक्रमणं प्रत्युत्पन्नविषयमपि संवरद्वारेणाशुभयोगानामनागतमपि प्रत्याख्यानद्वारेणेति न कश्चिदोष:, तच्च दैवसिकादिभेदात्पञ्चविधं भवति, दिवसस्यान्ते दैवसिकं रात्रेरन्ते रात्रिकं पक्षस्यान्ते पाक्षिकं चतुर्णां मासानामन्ते चातुर्मासिकं संवत्सरस्यान्ते सांवत्सरिकं, व्युत्पत्तिस्तु दिवसे भवमितीकणि दैवसिकमित्यादि, तत्पुनरपि द्विधा ध्रुवमधुवं च तत्र ध्रुवं भरतैरावतेषु प्रथमचरमतीर्थकरतीर्थेषु अपराधो भवतु मा वा उभयकालं प्रतिक्रमणं, अध्रुवं पुनर्मध्यमतीर्थकरतीर्थेषु महाविदेहेषु च तेषां हि कारणजात एव समुत्पन्ने प्रतिक्रमणं, नान्यथा, यदाहुः - 'सपडिकमणो धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स । मन्झिमगाण जिणाणं कारणजाए पडिकमणं ॥ १ ॥ [ सप्रतिक्रमणो धर्मः पूर्वस्य च पश्चिमस्य च जिनस्य । मध्यगानां जिनानां कारणजाते प्रतिक्रमणं ॥ १ ॥ ] प्रतिक्रमणविधिश्चायं - “पञ्च विहायारविसुद्धिहेउमिह साहु सावगो वाऽवि । पडिकमणं सह गुरुणा गुरुविरहे कुणइ एक्कोवि ॥ १ ॥” [ पञ्चविधाचारविशुद्धिहेतोरिह साधुः श्रावको वाऽपि । प्रतिक्रमणं सह गुरुणा गुरुविरहे करोत्येकोऽपि ॥ १ ॥ ] तत्राह — दैव सिकप्रतिक्रमणविधिः
चिवंदण उस्सग्गो पोत्तियपडिलेह बंदणालोए । सुत्तं वंदण खामण वंदणय चरितउस्सग्गो
National
For Private & Personal Use Only
३ प्रतिक्रमणद्वारे दैवसिक प्रतिक्रमणविधिः
॥ ३९ ॥
www.jainelibrary.org