________________
लघवो वन्दनकं ददति, लघुनाऽपि प्राघूर्णकेन समागतेन वन्दनकं ज्येष्ठस्य दातव्यं, अत्र चाय विधिः-संभोइयन्नसंभोइया य दुविहार दहवंति पाहुणया । संभोए आयरियं आपुच्छित्ता उ बंदंति ॥ १ ॥ इयरे पुण आयरियं वंदित्ता संदिसाविउं तह य । पच्छा वंदेइ जई।
गयमोहो अह्व वंदावे ॥२॥ इति । [ सांभोगिका अन्यसांभोगिकाश्च द्विविधा भवन्ति प्राघूर्णकाः । सांभोगिकेषु आचार्यमापृच्छयैव वन्दते ॥ १॥ इतरे पुनराचार्य वन्दित्वा संदिश्य तथा च पश्चाद् वन्दते यतीन् गतमोहः अथवा वन्दयेत् ॥२॥] ५, तथाऽऽलोचनायां-अपराधे सति विहारगमने च दीयमानायां वन्दनकं भवति, वन्दनकं दत्त्वा गुरूणामालोचना दीयते इत्यर्थः ६, तथा बहुभिराकारैर्गृहीतस्यैकाशनादिप्रत्याख्यानस्य भोजनानन्तरमाकारसङ्केपणस्वरूपं संवरणं अथवा कृतनमस्कारसहितादिप्रत्याख्यानस्यापि पुनरजीर्णा| दिकारणतोऽभक्तार्थ गृहृतः संवरणं तस्मिन्नपि वन्दनकं दत्त्वा यत् क्रियते इति ७, तथा उत्तमार्थे-अनशनसंल्लेखनायां वन्दनकं भवतीति
एवं नियतानियतस्थानानि वन्दनकानि सामान्येन दर्शितानि ॥ १७४ ॥ इति वन्दनकद्वारं 'पडिक्कमणं'ति तृतीयद्वारमधुना | तत्र 'प्रतिक्रमण'मिति प्रतीत्ययमुपसर्गः प्रतीपे प्रातिकूल्ये च वर्तते 'क्रमु पादविक्षेपे' इत्यस्य भावे ल्युट्प्रत्ययान्तस्य प्रतीपं प्रतिकूलं वा क्रमणं प्रतिक्रमणं, ततोऽयमर्थः-शुभयोगेभ्योऽशुभयोगान्तरं क्रान्तस्य शुभेष्वेव योगेषु क्रमणात्प्रतीपं क्रमणं, यदाह-"स्वस्थानाद्यत्परं स्थानं, प्रमादस्य वशागतः । तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते ॥ १॥” प्रतिकूलं वा गमनं प्रतिक्रमणं, यदाहुः-"क्षायोपशमिका
दावादौदयिकवशं गतः । तत्रापि च स एवार्थः, प्रतिकूलगमात् स्मृतः ॥१॥" वीप्सार्थे वा प्रतिशब्दः प्रति प्रति क्रमणं प्रतिक्रमणं, उक्तं ४च-"प्रति प्रति प्रवर्तनं वा शुभेषु योगेषु मोक्षफलदेषु । निःशल्यस्य यतेर्यत्तद्वा ज्ञेयं प्रतिक्रमणम् ॥ १॥” तच्चातीतानागतवर्तमानकाल
त्रयविषयं, ननु अतीतकालविषयमेव प्रतिक्रमणं युक्तं, यत उक्तम्-'अईयं पडिकमामि पडुपन्नं संवरेमि अणागयं पञ्चक्खामी"ति
JainEducation
For Private & Personal Use Only
anw.jainelibrary.org