________________
* HANI
निह्नवादीनामनुपयुक्तसम्यग्दृष्टीनां वा, भावत उपयुक्तसम्यग्दृष्टीनामिति । वन्दनकस्य इमानि भवन्ति पञ्चैव नामानीति ॥ १२७ ॥
'पंचेव आहरण'त्ति द्वारं-'सीयले' यादि । शीतलको नृपतिः परित्यक्तराज्यसमृद्धिर्गृहीतसर्वज्ञदीक्षोऽक्षुण्णेन तदीयगुणगणेन प्रमोद-1 *मानमानसैनिजगुरुभिर्विश्राणितश्रमणानन्ददायिसूरिपदो द्रव्यभावभेदभिन्ने वन्दनके उदाहरणं, तथा द्रव्यभावस्वरूपे चितिकर्मणि स्थविरे-II
निजगुरुभिर्गुरुपदस्थापितक्षुल्लक उदाहरणं, तथा तथाभूत एव कृतिकर्मणि प्रणमदनेकमहाप्रचण्डमण्डलेश्वरमण्डलीमौलिमण्डनमुकुटकोटिनिविष्टविशिष्टमाणिक्यमालातलसमुच्छलदनवरतस्फुरदरुणकिरणपुजपिचरितचरणकमलः शालापतिवीरककलितः कृष्णो दृष्टान्तः, तथा पूजाकर्मणि द्रव्यभावभेदभिन्ने सेवकद्धयमुदाहरणं, तथा विनयकर्मणि द्विविध एव पालकशाम्बावुदाहरणं, पञ्चैते दृष्टान्ताः कृतिकर्मणि| सामान्यतो वन्दनके भवन्ति ज्ञातण्याः॥ १२८ ॥ उदाहरणानि चैतानि सङ्केपतः कध्यन्ते, तत्र भावतः शीतलकोदाहरणं यथा__अवनीवनिताभालतिलके श्रीपुरे पुरे । प्रतापाक्रान्तदिक्चक्रः, क्षमापाल: शीतलोऽजनि ॥१॥ सर्वज्ञशासनक्षीरनीरधौ। | सद्गतिस्तुतः । शुद्धपक्षद्वयो राहंसः क्रीडति यः सदा ॥२॥ तस्याभूगिनी भाग्यसौभाग्यैकनिकेतनम् । सद्धर्मकर्मनिर्माणपर
शृङ्गारमञ्जरी ॥३॥ सा च विक्रमसिंहस्य, राज्ञी जाता जगत्पतेः । सल्लक्षणं क्रमात्पुत्रचतुष्टयमजीजनत् ॥ ४ ॥ शीतलश्च , मही-| पालश्वारुवैराग्यरजितः । श्रीधर्मघोषसूरीणामन्तिके व्रतमग्रहीत् ॥ ५॥ तं च विज्ञातसिद्धान्ततत्त्वं गीतार्थशेखरम् । गुरुवस्तद्गुणैस्तुष्टाः, स्वपदेऽथ न्यवीविशन ॥ ६॥ अन्येधुनिजपुत्राणां, कलाकौशलशालिनाम् । शृङ्गारमञ्जरी राज्ञी, रहस्येवमवोचत ॥७॥ | वत्सा ! यौष्माक एवैकः, श्लाघ्यो जगति मातुलः । येन साम्राज्यमुत्सृज्य, जगृहे व्रतमुत्तमम् ॥८॥ यश्च निःशेषशास्त्रान्धिपारदृश्वा | मुनीश्वरः । निस्सङ्ग विहरन्नित्यं, प्रबोधयति देहिनः ॥ ९॥ पचेलिमं यथाऽाहि, संसारस्यामुना फलम् । तथा वत्सास्तदादातुं, भव
Jain Education
For Private & Personel Use Only
Owainelibrary.org |