SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ दर्शनातिचारेषु वर्त्तते चारित्रे न वर्तते अतिचारान् वा न वर्जयति एवं स्वस्थ स्तिष्ठति पार्श्वस्थः ] अनेन प्रन्थेन सर्वथाऽस्य पार्श्वस्थस्य न | |चारित्राभावोऽवसीयते, किंतु शबलितचारित्रयुक्तताऽपीति । "पंचेव पडिसेहेत्ति" द्वारमधुना, तत्राह वक्खित्तपराहुत्ते पमैत्ते मा कयाइ वंद्विजा। आहारं व करिते नीहोरं वा जइ करेइ ॥ १२४॥ पसंते आसणत्थे य, उवसंते उवहिए। अणुन्नवित्तु मेहावी, किइकम्मं पउंजए ॥१२५ ॥ आयप्पमाणमित्तो चउदिसिं होह उग्गहो गुरुणो) अणणुन्नायस्स सया न कप्पए तत्थ पवि सेउं ॥१२६॥ 'वक्खित्ते'त्यादि, व्याक्षिप्तं अनेकभविकलोकसङ्कलाया सभायां देशनाकरणादिना व्ययं १, पराहूतमिति-केनापि कारणेन पराअखं l२, प्रमत्तं क्रोधनिन्द्रादिप्रमादेन मा कदाचिद्वन्देत ३, आहारं वा कुर्वाणं ४ नीहारं उच्चारं वा यदि करोति ५ तदा न वन्देतेति सम्बन्धः ६॥ १२४ ॥ इह च धर्मान्तरायानवधारणप्रकोपाहारान्तरायलज्जावशपुरीषानिर्गमनादयो दोषा यथासङ्ख्येन ज्ञातव्याः, एतद्विपक्षस्त्वत्रानु क्तोऽपि विज्ञेयः, यथा-'पसंते'त्यादि, तत्र प्रशान्तो-व्याक्षेपविरहितः आसनस्थो-निषद्यास्थितः उपशान्तः-क्रोधादिप्रमादरहितः उपस्थितः -छन्देनेत्यादिवचनमुच्चारयन्, शेषं सुगमम् ॥१२५।। अथ 'एक्कोवगह'त्ति द्वारं तत्राह-'आयप्पमाणे'त्यादि, आत्मप्रमाणमात्रः-सार्धहस्तत्रयप्रमाणश्चतुर्दिशं भवत्यवग्रहो गुरोः, अननुज्ञातस्य गुरुणा न कल्पते तन्मध्ये प्रवेष्टुं, तत्रावग्रहणमवग्रहः, स च नामस्थापनाद्रव्यक्षे-1 त्रकालभावभेदैः षड्डिधः, नामस्थापने सुगमे, द्रव्यस्य मुक्ताफलादेरवग्रहणं द्रव्यावग्रहः, यो यत्क्षेत्रमवगृह्णाति स क्षेत्रावग्रहः स च समन्ततः सक्रोशं योजनमेकस्मिन् क्षेत्रेऽवगृहीते सतीति, कालावग्रहो यो यं कालमवगृह्णाति, यथा ऋतुबद्धे मासमेकं वर्षासु चतुरो CALESOSSESSMSACANCY Jain Education For Private & Personel Use Only ainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy