________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
॥ २७ ॥
Jain Education
ममिवात्मानं दर्शयति, तत्र तत्र तादृशो भवतीत्यर्थः, स च प्रियधर्मोऽथवा इतरस्तु - अप्रियधर्मो भवतीति ॥ १२० ॥ इदानीं यथाछन्दमाह - 'उस्सुत्त' मित्यादि, सूत्रादूर्द्धमुत्तीर्णं परिभ्रष्टमित्यर्थः उत्सूत्रं तदाचरन् - स्वयं सेवमानः उत्सूत्रमेव च यः परेभ्यः प्रज्ञापयन् वर्तते एष यथाछन्दः, एतस्यैव पर्यायमाह - " इच्छा छंद” इति एकार्थ नामेति ॥ १२१ ॥ अत्र च किमिदमुत्सूत्रमिति परिप्रभे सत्याह- 'उरसुत्त' मित्यादि, उत्सूत्रं यजिनादिभिरनुपदिष्टं स्वच्छन्देन - स्वाभिप्रायेण विकल्पितं - उत्प्रेक्षितं अत एव सिद्धान्ताननुपातिस्वकीयबुद्धिरचितत्वेन जैनागमानुयायि न भवतीत्यर्थः, यथाछन्दस्यैव गुणान्तरमाह — परतप्तिषु - गृहस्थप्रयोजनेषु करणकारणानुमतिभिः प्रवृत्तः परतप्तिप्रवृत्तः, तथा तिंतिणो नाम यः स्वल्पेऽपि केनचित्साधुनाऽपराद्धे पुनः पुनरनवरतं झपन्नास्ते एष यथाच्छन्दः ॥ १२२ ॥ तथा - ' सच्छंदे 'त्यादि, स्वच्छन्दा - आगमनिरपेक्षा याऽसौ मतिस्तया विकल्प्य किञ्चिदालम्बनमध्ययनादिकं ततः सुखमास्वादयतीति | सुखात्वादः स चासौ विकृतिप्रतिबद्धश्च स तथा अपुष्टालम्बनं किंचिद्विकल्प्य यः सुखलिप्सुर्विकृतिप्रतिबद्धो भवतीत्यर्थः, तथा त्रिभि गौरवै:- ऋद्धिरससातलक्षणैर्यो माद्यति तं जानीहि यथाछन्दमिति ॥ १२३ ॥ अत्र च पार्श्वस्थं सर्वथैवाचारित्रिणं केचिन्मन्यन्ते तच्च न युक्तियुक्तं प्रतिभासते सहृदयानां यतो यद्येकान्तेनैव पार्श्वस्थोऽचारित्री भवेत् तर्हि सर्वतो देशतश्च इति विकल्पद्वयकल्पनमसङ्गतं भवेत्, चारित्राभावस्योभयत्रापि तुल्यत्वात् तस्मादेव भेदद्वयकल्पनाद् ज्ञायते सातिचारचारित्रसत्तापि पार्श्वस्थस्य, न चेदं स्वमनीषिकयोच्यते, यतो निशीथ चूर्णावप्येवं दृश्यते— “पासत्थो अच्छइ सुत्तपोरिसिं अत्थपोरिसिं च नो करेइ, दंसणाइयारेसु बट्टइ चारित्ते न वट्टइ, अइयारे वा न वज्जेइ, एवं सत्थो अच्छइ पास थो"त्ति [ पार्श्वस्थस्तिष्ठति सूत्रपौरुपीं अर्थपौरुषीं च न करोति,
tional
For Private & Personal Use Only
२ वन्दन
कद्वारे
५ पासत्था
दिस्वरूपं
1| 210 11
w.jainelibrary.org