SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ स्त्रीलक्षणादीनि आदिशब्दात् पुरुषलक्षणादिपरिग्रहस्तेषां कथनं, यथा-"अस्थिष्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ || यानं स्वरे चाज्ञा, सर्व सत्त्वे प्रतिष्ठितम् ॥१॥” इत्यादिसामुद्रिकलक्षणकथनं, विद्यामन्त्रादयः प्रकटाः, तत्र देव्यधिष्ठायिका विद्याः देवाधिष्ठायकस्तु मन्त्रः ससाधना वा विद्या निःसाधनस्तु मत्र इति, आदिशब्दान्मूलकर्मचूर्णादिपरिग्रहः, तत्र मूलकर्म पुरुषद्वेषिण्याः सत्या अपुरुषद्वेषिणीकरणं अपुरुषद्वेषिण्याः सत्याः पुरुषद्वेषिणीकरणं गर्भोत्पादनं गर्भपातनमित्यादि, चूर्णयोगादयस्तु प्रकटाः, उपलक्षणमात्रं चैतत् , अतः शेषमपि शरीरविभूषादिकं चरणमालिन्यजनकं कुर्वाणश्चरणकुशील इत्यर्थः ॥११५॥ इदानी संसक्तमाह-संसत्तो उ' इत्यादि, गुणैर्दोषैश्च संसज्यते-मिश्रीभवतीति संसक्तः, तुशब्दोऽप्यर्थः, ततो यथा पार्श्वस्थावसन्नकुशीला वन्दनकार्हा न भवन्ति तथा संसक्तोऽपीत्यर्थः, स पुनरित्थं ज्ञातव्यो यथा गवादीनां खादनकलिन्दके उच्छिष्टमनुच्छिष्टं वा भक्तखलकर्पासादिकं क्षिप्तं सत् सर्व प्राप्यते ॥ ११६ ॥ 'एमेवे'त्यादि, एवमेव-कलिन्दकक्षिप्तभक्तखलादिवत् प्राणातिपातनिवृत्त्यादिखरूपमूलगुणाः पिण्डविशुद्ध्यादिका स्वरूपोत्तरगुणाश्च बहवो दोषाश्च तद्व्यतिरिक्तास्ते सर्वेऽपि तस्मिन् सन्निहिताः प्राप्यन्ते संसक्तो भण्यते तस्मात् ॥ ११७ ॥ 'सो दुवि-|| गप्पो'इत्यादि, संसक्तो द्विविकल्पो भणितो जिनैर्जितरागदोषमोहैः एकश्च संक्लिष्टोऽसंक्लिष्टस्तथा अन्यः ॥ ११८॥ तत्र संक्लिष्टमाह'पंचासवेत्यादि, पञ्चाश्रवाः-प्राणातिपातादयस्तेषु प्रवृत्तो यः खलु त्रिषु गौरवेषु-ऋद्धिगौरवादिषु प्रतिबद्धः 'इत्थीगिहिसंकिलिट्ठो'त्ति सीसंक्लिष्टो गृहिसंक्लिष्टश्च, तत्र स्त्रीप्रतिषेवी स्त्रीसंक्लिष्टः गृहिसम्बन्धिनां द्विपदचतुष्पदधनधान्यादीनां तु तप्तिकरणप्रवृत्तो गृहिसंक्लिष्टः, स संसक्तः संक्लिष्टः ॥ ११९ ॥ असंक्लिष्टमाह-'पासत्थाई' इत्यादि, पार्श्वस्थादिषु मिलितस्तद्रूपतां भजते, संविनेषु मिलितः सवि Jain Educator DEional For Private & Personel Use Only jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy