________________
सकणिजं न समायरामि" ॥ [ किं मया कृतं किं च मे कृत्यं शेषं किं शक्यं न समाचरामि ] इत्यादिलक्षणं पूर्वापररात्रकाले न || ध्यायति अशुभं वा ध्यायति भक्तार्थे मण्डल्यां न भुते कदाचिद्वा भुङ्क्ते काकशृगालादिभक्षितं वा करोति मण्डलीसम्बन्धिसंयोजनादिदोषद दुष्टं वा भुङ्क्ते, अन्ये त्वाहुः-'अन्भत्तदृ'त्ति अभक्तार्थग्रहणं सकलप्रत्याख्यानोपलक्षणं, ततोऽयमर्थः-प्रत्याख्यानं न करोति गुरुणा ||
वा भणितो गुरुसम्मुखं किंचिदनिष्टमुक्त्वा करोति आगमने नैषेधिक्यादिसामाचारी न करोति निर्गमनेऽप्यावश्यकादिसामाचारी न | करोति कायोत्सर्ग गमनागमनादिषु न करोति दोषदुष्टं वा करोति निषदनशयनयोः सन्दंशकभूप्रमार्जनादिसामाचारी न करोति, | 'गुरुवयण'त्ति सामाचारीवितथाचरणादिकरणेष्वावश्यकवेलादौ सम्यगालोचय प्रायश्चित्तं प्रतिपद्यस्वेत्यादि गुरुणा भणितः सन् तद्वचनं प्रतिवलति-सम्मुखीभूयानिष्टं किञ्चिजल्पति न तु गुरुवचस्तथैवानुतिष्ठति भणितः स एष देशावसन्नः, उपलक्षणं चेदं, ततः स्खलितेषु | मिथ्यादुष्कृतं न दत्ते गुरवे वैयावृत्यं न करोति संवरणादिषु वन्दनकं न दत्ते आदाननिक्षेपणादिषु प्रत्युपेक्षणाप्रमार्जने न करोति इत्याद्यन्यदपि सामाचारीवितथाचरणं देशपार्श्वस्थतादिकारणमिति ॥ १०८॥ अथ कुशीलमाह-तिविहो होई'त्यादि, कुत्सितं शीलमस्येति || कुशीलः, स त्रिविधो भवति-ज्ञानविषये दर्शनविषये चारित्रविषये च, एषोऽवन्दनीयो-वन्दनानहः प्रज्ञप्तो वीतरागैः-अर्हद्भिः ॥१०९॥ | तत्र ज्ञानकुशीलदर्शनकुशीलौ लक्षणतः प्राह-'नाणे' इत्यादि, ज्ञानाचार-काले विणए' इत्यादिकमष्टप्रकार यो विराधयति-न | सम्यगनुतिष्ठति स ज्ञाने-ज्ञानविषये कुशीलो भवति, दर्शनाचारं निस्संकिय निकंखिय' इत्यादिकमष्टप्रकार यो विराधयति स दर्शनेदर्शनविषये कुशीलः, चरणकुशीलः पुनरयं-वक्ष्यमाणलक्षणो भवति ॥११०॥ तमेवाह-कोउय भूई'त्यादि दारगाहा, कौतुकभूतिकमणी प्रश्नाप्रश्नी निमित्तं आजीविका कल्ककुरुका चः समुच्चये लक्षणं विद्यामश्रादिकं च य उपजीवति स चरणकुशीलः ॥१११॥ एतानि
an Education
For Private
Personal Use Only
M
inelibrary.org