________________
प्रव. सा
रोद्धारे तत्त्वज्ञानवि०
॥२५॥
नवरं प्रतिदिनं तवैतावन्मानं दास्यामि मद्गृहे नित्यमागन्तव्यमिति निमश्रितस्य नित्यं गृहृतो नियपिण्डः, तत्क्षणोत्तीणौदनादिस्थाल्या २वन्दनअव्यापारिताया या शिखा-उपरितनभागलक्षणा सोऽअपिण्डः ॥ १०४-१०५ ॥ अवसन्नमाह-'ओसन्नो'इत्यादि, सामाचारीविष- | कद्वारे येऽवसीदति-प्रमाद्यति यः सोऽवसन्नः, सोऽपि द्विविधः-सर्वतो देशतश्च, तत्रावबद्धपीठफलकः स्थापनाभोजी च सर्वावसन्नो ज्ञातव्यः रा५पासत्था॥ १०६ ॥ तत्रैककाष्ठनिष्पन्नसंस्तारकालाभे बहुभिरपि वंशादिकाष्ठखण्डैर्दवरकादिबन्धान दत्त्वा वर्षासु संस्तारकः क्रियते, स च पक्षस-11 दिस्वरूपं न्ध्यादिषु बन्धानपनीय प्रत्युपेक्षणीय इति जिनाज्ञा, यस्त्वेवं न प्रत्युपेक्षते सोऽवबद्धपीठफलकोऽभिधीयते, अथवा पुनः पुनः शयनादिनिमित्तं नित्यमास्तीर्णसंस्तारक एव एकान्तानास्तीर्णसंस्तारक एव वा य आस्ते स एवमभिधीयते, स्थापनादोषदुष्टप्राभृतिकाभोजी च-पडू स्थापितकभोजी । देशावसन्नमाह-'आवे'त्यादि, आवश्यक-प्रतिक्रमणादि, स्वाध्यायः-वाचनादिः आवश्यकं च खाध्यायश्चेति । समाहारस्तस्मिन , मुखवस्त्रिकादेः प्रत्युपेक्षणायां भिक्षायां-गोचरचर्यायां ध्याने-धर्मध्यानादिलक्षणे भक्तार्थे-भोजने भोजनमण्डल्यामितियावत् आगमने-बहिर्भागादुपाश्रयप्रवेशलक्षणे निर्गमने-प्रयोजनापेक्षया उपाश्रयावहिर्गमनस्वरूपे स्थाने-कायोत्सर्गाचूर्द्धावस्थाने निपीदने-उपवेशने त्वग्वर्तने-शयने इति सर्वत्र सप्तमीनिर्देशो द्रष्टव्यः ॥ १०७ ॥ ततश्चैतेष्वावश्यकादिषु विषये देशावसनो भवतीति |शेषः, कदेत्याह-'आवे'त्यादि, यदैतान्यावश्यकस्वाध्यायादीनि स्थानानि सर्वथा न करोत्यथवा हीनाधिकानि करोति प्रतिषिद्धकालकरणादिदोषदुष्टानि वा करोति तदा देशावसन्नो भवतीत्यर्थः, इदमत्र तात्पर्य-यः प्रतिक्रमणाद्यावश्यकं न करोति हीनाधिक्यादिदोषदुष्टं वा करोति स्वाध्यायं न करोति प्रतिषिद्धकालकरणादिदोषदुष्टं वा करोति प्रत्युपेक्षणमपि न करोति दोषदुष्टं वा करोति आलस्यवश्य: सुखलिप्सुर्भिक्षायां न पर्यटति अनुपयुक्तो वा पर्यटति अनेषणीयं वा गृह्णाति, ध्यानं शुभं यथा-"कि मे कडं किं च मे किच्चसेसं, किं
Jain Education
a
l
For Private & Personel Use Only
Adjainelibrary.org