SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ xt- 4%AAAAAAAA%%ARNE प्रमादोद्भवमहमपि त्वां क्षमयामीत्यर्थः, एवं वचनानि-आलापकाः षट् वन्दनार्हस्य-वन्दनकयोग्यस्य भवन्तीति ॥ १०१ ॥ अथ 'अहिगारिणो य पंच उत्ति द्वार, तत्राह आयरिय उवज्झाए पवति धेरै तहेव रायणिऐ। एएसिं किइकम्मं कायव्वं निज्जरहाए ॥१०२॥ ___ 'आयरियेत्यादि, अधिकारिणो-वन्दनकस्य योग्याः पञ्च-आचार्य उपाध्यायः प्रवर्तकः स्थविरस्तथैव रत्नाधिकः, एतेषां पञ्चानां कृतिकर्म-वन्दनकं कर्तव्यं निर्जरार्थ, तत्राऽऽचर्यते-सेव्यते कल्याणकामैरित्याचार्य:-सूत्रार्थोभयवेत्ता प्रशस्तसमस्तलक्षणलक्षितक्षेत्रो गाम्भीर्यस्थै-15| यधैर्यादिगुणगणमणिभूषितश्च, उप-समीपे समागत्याधीयते-पठ्यते यस्मादसावुपाध्यायः, तथा चैतत्स्वरूपम् - "सम्मत्तनाणसंजमजुत्तो सुत्तत्थतदुभयविहिन्न् । आयरियठाणजोगो सुत्तं वाएउवज्झाओ ॥ १॥” इति । [सम्यक्त्वज्ञानसंयमयुक्तः सूत्रार्थतदुभयविधिज्ञः । आचार्यस्थानयोग्यः सूत्रं वाचयत्युपाध्यायः ॥१॥] यथोचितं प्रशस्तयोगेषु साधून प्रवर्तयतीति प्रवर्तकः, यदुक्तम्-'तवसंजमजोगेसुं जो जोगो तत्थ तं पवत्तेइ । असहं च नियत्तेइ गणतत्तिल्लो पवत्तीओ ॥१॥" [तपःसंयमयोगेषु यो योग्यस्तत्र तं प्रवर्तयति।असमर्थ च निवर्त्तयति गणतप्तिपरः प्रवर्तकः ॥ १॥] तथा सीदतः साधून ज्ञानादिषु ऐहिकामुष्मिकापायदर्शनत: स्थिरीकरोतीति स्थविरः, उक्तं च|"थिरकरणा पुण थेरो पवत्तिवावारिएसु अत्थेसुं। जो जत्थ सीयइ जई संतबलो तं थिरं कुणइ ॥ १॥"[स्थिरकरणात् पुनः स्थविरः प्रवर्तकव्यापारितेष्वर्थेषु । यो यन्त्र सीदति यतिः विद्यमानबलस्तं स्थिरं करोति ॥ १॥] रत्नाधिक:-पर्यायज्येष्ठः, एतेषां कृतिकर्म विधेयं ॥ १०२॥ अथ 'इयरे पंचेव'त्ति द्वारं, तत्राऽऽह पासत्थो १ ओसन्नो २ होइ कुसीलो ३ तहेव संसत्तो ४। अहछंदोवि अ एए अवंदणिज्जा JainEducation For Private 3 Personal Use Only jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy