________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
॥ २३ ॥
विज्ञानफलं विज्ञानं प्रत्याख्यानफलं प्रत्याख्यानं संयमफलं संयमोऽनाश्रवफलः अनाश्रवः तपःफलः तपो व्यवदानफलं व्यवदानमक्रियाफलं अक्रिया सिद्धिगतिगमनफला ] इत्यादि, तत्र 'अणण्हए' इति अनाश्रवो नवकर्मानादानमित्यर्थः, 'वोदाण'त्ति व्यवदानंविशुद्धिः पूर्वक्षपणमित्यर्थः ॥ १०० ॥ छच्चेत्र हवंति गुरुवयण'त्ति द्वारं, तत्राह -
छंदे ऽणुजाणांमि तहन्तिं तुभंपि वैहए एवं । अहमवि खामेमि तुमे वयणाई बंदरहस्स ॥ १०१ ॥
'छंदेणे'त्यादि, इह हि शिष्येण गुरोः वन्दनकं दातुकामेन 'इच्छामि खमासमणो ! वंदिउं जावणिज्जाए निस्सीहियाए' इत्युक्ते गुरुर्यदि व्याक्षेपबाधायुक्तस्तदा भणति - प्रतीक्षखेति, तच्च बाधादिकारणं यदि कथनयोग्यं भवति तदा कथयति अन्यथा तु नेति चूर्णिकारमतं, वृत्तिकारस्य तु मतं त्रिविधेनेति भणति, मनसा वचसा कायेन निषिद्धोऽसीत्यर्थः, ततः शिष्यः सङ्क्षेपवन्दनं करोति, व्याक्षेपादिरहितश्चेद्गुरुस्तदा वन्दनकमनुज्ञातुकामश्छन्देनेति वदति, छन्देन - अभिप्रायेण ममाप्यभिप्रेतमेतदित्यर्थः, ततः शिष्येण 'अणुजाणह मे मिउगह' मित्युक्ते गुरुराह - अनुजानामीति अनुज्ञातस्त्वं, प्रविश ममावग्रहमित्यर्थः, ततः शिष्येण 'निस्सीहीत्यादि दिवसो वइक्कंतो' इति पर्यन्ते सूत्रे भणिते गुरुराह - तथेति यथा भवान् ब्रवीति, अस्माकं शुभेन दिवसो व्यतिक्रान्त इत्यर्थः, ततः शिष्येण 'जत्ता भे' इत्युक्ते गुरुर्वदति - युष्माकमपि वर्तते ? इति मम तावत् संयमतपोनियमादिलक्षणा यात्रा उत्सर्पति, भवतामप्युत्सर्पतीत्यर्थः, ततः पुनरपि विनेयेन 'जवणिज्जं च भे' इत्युक्ते गुरुर्भणति - 'एव' मिति इन्द्रियनोइन्द्रियोपशमादिना प्रकारेणाबाधितं वर्तते मम शरीरमित्यर्थः, ततो भूयोऽपि शिष्येण 'खामेमि खमासमणो! देवसियं वइक्कम' मित्युक्ते गुरुर्वक्ति-अहमपि क्षमयामि स्वामिति, दैवसिकं व्यतिक्रमं
Jain Education International
For Private & Personal Use Only
२ वन्दन
कद्वारे
६ गुणः
६ गुरुवचनद्वार•
दयं
॥ २३ ॥
www.jainelibrary.org