SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० ॥२२॥ 'इच्छा य अणुण्णवणे'त्यादि, इच्छा चानुज्ञापना अव्याबाधं च यात्रा च यापना चापराधक्षामणा अपि च षट् स्थानानि भवन्ति वन्द- २ वन्दननके इति गाथासंस्कारः । तत्रेच्छा नामस्थापनद्रव्यक्षेत्रकालभावभेदैः षडिधा, तत्र नामस्थापने क्षुण्णे, द्रव्येच्छा सचित्तादिद्रव्याभिलाषोऽ- कद्वारे प|नुपयुक्तस्य वेच्छामीत्येवं भणतः, क्षेत्रेच्छा मगधादिक्षेत्रामिलाषः, कालेच्छा रजन्यादिकालाभिलाषः, यथा-"रयणीमभिसारिआओ चोरा दस्थानद्वारं परदारिया य इच्छंति । तालायरा सुभिक्खं बहुधन्ना केइ दुभिक्खं ॥१॥" [रजनीमभिसारिकाः चौराः पारदारिकाश्चेच्छन्ति । तालाचराः सुभिक्षं बहुधान्याः केचिद् दुर्भिक्षम् ।। १॥] भावे इच्छा प्रशस्तेतरभेदाद्विधा, प्रशस्ता ज्ञानाद्यभिलाष: अप्रशस्ता कामिन्याद्यनुरागामिलाषः, अत्र च प्रशस्तभावेच्छयाऽधिकारः । इदानीमनुज्ञापना, साऽपि नामादिमिः षड्नेदा, तत्र नामस्थापने सुगमे, द्रव्यानुज्ञापना | त्रिधा-लौकिकी लोकोत्तरा कुप्रावचनिकी च, तत्र लौकिकी सचित्ताचित्तमिश्रभेदैनिधा अश्वाद्यनुज्ञापना प्रथमा मुक्ताफलवैडूर्याद्यनुज्ञापना द्वितीया विविधाऽऽभरणविभूषितवनिताद्यनुज्ञापना तृतीया, लोकोत्तराऽपि सचित्तादिभेदैनिविधा-शिष्याद्यनुज्ञा प्रथमा वस्त्राद्यनुज्ञा * द्वितीया परिहितवस्त्रादिशिष्याद्यनुज्ञा तृतीया, एवं कुप्रावचनिक्यपि त्रेधाऽवगन्तव्या, क्षेत्रानुज्ञापना यावतः क्षेत्रस्यानुज्ञापनं विधीयते यस्मिन् क्षेत्रेऽनुज्ञा व्याख्यायते क्रियते वा, एवं कालानुज्ञापनापि, भावानुज्ञापना आचाराद्यनुज्ञापना, एषा चात्र प्राह्या । 'अव्वाबाह'ति न विद्यते व्याबाधा यत्र तव्याबाधं वन्दनं, सा च व्याबाधा द्रव्यतो भावतश्च, द्रव्यतः खड्गाद्यभिघातकृता, भावतो मिथ्यात्वादिकृता, |सा द्विरूपाऽपि न विद्यते यत्रेति, एतच्च 'बहुसुभेण भे' इत्यादिना कथितं, 'जत्त'त्ति यात्रा द्विविधा-द्रव्यतो भावतश्व, द्रव्यतस्तापसादीनां मिथ्यादृशां स्वक्रियोत्सर्पणं भावतः साधूनामिति । 'जवणाय'त्ति यापनाऽपि द्विधा-द्रव्यतो भावतश्च, द्रव्यतः शर्कराद्राक्षादिसदौषधैः IDHI २२॥ कायस्य समाहितत्वं, भावतस्तु इन्द्रियनोइन्द्रियोपशान्तत्वेन शरीरस्य समाहितत्वं । क्षामणाऽपि द्रव्यतो भावतश्व, द्रव्यतः कलुषाशयस्य. 95%ॐॐॐॐॐॐ Jain Education i n For Private Personel Use Only jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy