________________
Jain Education
रजोहरणमुखवस्त्रिकाचोलपट्टकमात्रया श्रमणो जातो भालतलघटितकरसम्पुटस्तु योन्या निर्गतः एवम्भूत एव च वन्दनकं ददाति | तदव्यतिरेकाद्वन्दनकमपि यथाजातमभिधीयते, कृतिकर्म-वन्दनकं द्वादश आवर्ताः - सूत्राभिधानगर्भा : कायव्यापारा यस्मिंस्तद् द्वादशावर्त, इह च प्रथमप्रविष्टस्य 'अहो १ कार्य २ कायसंफासं ३ खमणिज्जो भे किलामो अप्पकिलंताणं बहुसुभेण भे दिवसो वइकतो ?, जत्ता भे ४ जवणि ५ ज्जं च मे ६' इति सूत्रगर्भा गुरुचरणकमलन्यस्तहस्तशिरः स्थापनरूपाः षट् आवर्ताः भवन्ति, निष्क्रम्य पुनः प्रविष्टस्याप्येत एव षडिति मिलिता द्वादश 'चउस्सिरं 'ति चत्वारि शिरांसि - उपचाराच्छिरोऽवनमनानि यत्र तच्चतुः शिरो वन्दनकं, तत्र प्रथमप्रविष्टस्य 'खामेमि खमासमणो ! देवसियं वइक्कमं' इति भणतः शिष्यस्य एकं शिरः 'अहमवि खामेमि तुमे' इति वदत आचार्यस्य द्वितीयं शिरः पुनरपि निष्क्रम्य प्रविष्टस्य क्षामणाकाले एवमेव शिरोद्वयं ज्ञेयमिति चतुः शिरो वन्दनकं, अन्यत्र पुनरेवं | दृश्यते - "संफासनमणे एगं खामणानमणे सीसस्स बीयं, एवं बीयपवेसेवि दोन्नि” इति [ संस्पर्शनमने एकं क्षामणानमने शिष्यस्य द्वितीयं, एवं द्वितीयप्रवेशेऽपि द्वे ] 'तिगुत्तं 'त्ति तिस्रो गुप्तयो यत्र तत् त्रिगुप्तं, मनसा सम्यक् प्रणिहितः वाचाऽस्खलितान्यक्षराण्युचारयन् कायेनाऽऽवर्तानविराधयन् वन्दनकं करोति, चशब्दोऽवधारणे, 'दुपवेसं'ति द्वौ प्रवेशौ यस्मिन् तद् द्विप्रवेश, प्रथमो गुरुमनुज्ञाप्य प्रविशतः द्वितीयः पुनर्निर्गत्य प्रविशत इति, 'एगनिक्खमणं' ति एकं निष्क्रमणं गुरोरवप्रहादावश्यिक्या निर्गच्छतो यत्र तत्तथा इत्यावश्यकपञ्चविंशतिः ॥ ९८ ॥ 'छट्टाणे'ति द्वारमधुना -
ईच्छा य अणुण्णवेणा अब्याबाहं च जैत्त जवणां य । अवराहखामणवि य छट्ठाणा हुंति वंद
॥ ९९ ॥
For Private & Personal Use Only
lainelibrary.org