________________
जि
तथाऽऽशातनास्रयस्त्रिंशत् 'पुरओ पक्खासन्ने' इत्यादिकाः, 'अणाढियं च थद्धं च' इत्यादयो द्वात्रिंशदोषाः, 'पडिक्कमणे सज्झाए' इत्यादीन्यष्टौ कारणानि, एवं सर्वेषु मीलितेषु द्विनवतं शतं १९२ स्थानानां वन्दनके भवति ज्ञातव्यमिति प्रतिद्वारगाथात्रयार्थः ॥ ९५ ॥
दिहिपडिलेहणेगा नव अक्खोडा नवेव पक्खोडा । पुरिमिल्ला छच्च भवे मुहपुत्ती होइ पणवीसा ॥९६ ॥ बाइसिरमुहहियये पाएम अहृति तिन्नि पत्तेयं । पिट्टीइ हंति चउरो एसा पुण देह
पणवीसा ॥९७॥ 'दिट्ठी'त्यादि, इह च मुखानन्तकपञ्चविंशतिः कायपञ्चविंशतिश्च सुप्रतीतत्वात्सूत्रकृतान व्याख्याता, वयं तु विनेयजनानुग्रहाय किञ्चि-I द्वितन्महे, तत्र मुखानन्तकस्य-मुखवत्रिकायाः पञ्चविंशतिरेवं-यथा वन्दनकं दातुकामः कश्चिद्भव्यः क्षमाश्रमणदानपूर्व गुरोरनुज्ञा मार्गयित्वा उत्कटिकासनः सन् मुखवस्त्रिका प्रसार्य तदर्वाग्भागं चक्षुषा निरीक्षेत इदमेकमालोकनं, ततस्तां परावर्त्य निरूप्य च त्रयः पुरिमाः-14 प्रस्फोटनरूपाः कर्तव्याः, तदनु तां परावर्त्य निरीक्ष्य च पुनरपरे त्रयः पुरिमाः, एवमेते षट् , ततो दक्षिणकरामुल्यन्तरे वधूटिकद्वयं त्रयं || वा कृत्वा द्वयोजचयोर्मध्ये प्रसारितवामकरतलोपरि त्रयस्त्रयः करप्रमार्जनारूपप्रस्फोटकानां त्रयेण त्रयेणान्तरिता आस्फोटकाः कर्तव्याः, अत्र आस्फोटा-अखोडा इति प्रसिद्धा नव, प्रमार्जनारूपाश्च प्रस्फोटा:-पखोडा इति प्रसिद्धा नव, एवमेते मिलिता मुखानन्तकपञ्चविंशतिः ॥ ९६ ॥ तथा देहपञ्चविंशतिरेवं-यथा दक्षिणपाणिस्थितवधूटकीकृतमुखवत्रिकया वामबाहोर्मध्यदक्षिणवामभागानां क्रमेण प्रमार्जनमित्येकं त्रिकं, ततो वामकरे तथैव मुखवत्रिकां विधाय दक्षिणबाहोर्वामबाहुवत्प्रमार्जनमिति द्वितीयं त्रिकं, ततः समुत्सारित
*
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org