SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० |२ वन्दन कद्वारे मा१९२ स्था नव्याख्या ण्डकैर्जिनमभिवन्दते, चतुर्थस्तुतिपर्यन्ते पुनः शक्रस्तवमभिधाय द्वितीयवेलं तेनैव क्रमेण वन्दते, तदनु चतुर्थशक्रस्तवभणनानन्तरं स्तोत्रं पवित्रं भणित्वा 'जय वीयराय' इत्यादिकं च प्रणिधानं कृत्वा पुनः शक्रस्तवमभिधत्ते इति, एषा चोत्कृष्टा चैत्यवन्दना ऐर्यापथिकीप्रतिक्रमणपूर्विकैव भवति, जघन्यमध्यमे तु चैत्यवन्दने ऐर्यापथिकीप्रतिक्रमणमन्तरेणापि भवत इति ॥९२॥ 'बंदणय'ति द्वितीयं द्वारमधना व्याख्यायते, तत्राह मुहणंतयदेहीऽऽवस्सएसु पणवीस हुंति पत्तेयं । छट्ठाणा छच्च गुणा छच्चेव हवंति गुरुवर्यणा ॥९३॥ अहिगारिणो य पंच य इयरे पंचे। पंच पडिसेहो। एक्कोऽवग्गह पंचाभिहाणे पंचेव आहरेणा ॥९४ ॥ आसायण तेत्तीसं दोसौ बत्तीस कारणां अह । बाणउयसयं ठाणाण बंदणे होइ नायव्वं ॥९५॥ __'मुहणंत' इत्यादि गाथात्रयं, मुखस्यानन्तकं-वस्त्रं मुखानन्तकं-मुखवत्रिका तञ्च देहश्च-कायः आवश्यकानि च व्यवनतादीनि तेषु प्रत्येकं पञ्चविंशतिः स्थानानि, तथा षट् स्थानानि 'इच्छा येत्यादीनि, तथा षड् गुणाः 'विणओवयारे'त्यादिकाः, तथा षडेव भवन्ति गुरोर्वचनानि 'छदेणे'त्यादीनि, प्राकृते लिङ्गमतत्रमिति सूत्रे पुंसा निर्देशः ॥ ९३ ॥ तथाऽधिकारिणो येषां वन्दनकं दीयन्ते 'आयरियउवज्झाए' इत्यादयः पञ्च, तथा येषां न दीयते वन्दनकं तेऽपीतरे अनधिकारिणः पञ्चैव 'पासत्थो ओसन्नो' इत्यादयः, तथा पञ्च प्रतिषेधाः 'वक्खित्तपराहुत्ते' इत्यादयः, तथैकोऽवग्रहः 'आयप्पमाणमेत्तो' इत्यादिना भणिष्यमाणस्वरूपः, तथा वन्दनकस्य पञ्चाभिधानानि-'वंदणचिइकिइकम्म' इत्यादीनि पर्याया इत्यर्थः, तथा पञ्चैवोदाहरणानि 'सीयले खुडए' इत्यादीनि ॥ ९४ ॥ ॥२०॥ JainEducation Intermational For Private sPersonal use Only
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy