________________
टाएव प्रकारः ? किं वा जघन्यादिकृतं प्रकारान्तरमप्यस्ति ?, बाढमस्तीत्याह-नवकारेणे'त्यादि, जघन्यमध्यमोत्कृष्टभेदन त्रिविधी
तावञ्चैत्यवन्दनं, तत्रैकेन 'नमो अरिहंताणं इत्यादिना यदिवा-'पायानेमिजिनः स यस्य रुचिभिः श्यामीकृताङ्गस्थितावग्रे रूपदिहक्षया स्थितवति प्रीते सुराणां प्रभो । काये भागवते च नेत्रनिकरैर्वृत्रद्विषो लाञ्छिते, सम्भ्रान्तास्त्रिदशाङ्गनाः कथमपि ज्ञात्वा स्तवं | चक्रिरे ॥ १॥ इत्यादिरूपेण स्तवेन जघन्या चैत्यवन्दना, अन्ये पुनः प्रणाममात्ररूपां जघन्यां चैत्यवन्दनां वदन्ति, प्रणामस्तु पञ्चधा भवति, यथा-एकाङ्गः शिरसो नामे, व्यङ्गश्च करयोर्द्वयोः । त्रयाणां नमने व्यङ्गः, करयोः शिरसस्तथा ॥१॥ चतुर्णा करयोर्जान्वोनमने चतुरङ्गकः । शिरसः करयोर्जान्वोः, पञ्चाङ्गः पञ्चमो मतः॥२॥ इति, मध्यमा तु स्थापनाऽहतस्तवदण्डकैकस्तुतिरूपेण युगलेन भवति, अन्ये त्वेवं व्याख्यानयन्ति-दण्डकानां-शकस्तवादीनां पञ्चकं तथा स्तुतियुगलमिति-समयभाषया स्तुतिचतुष्टयं ताभ्यां या वन्दना सा मध्यमा, साम्प्रतरुढ्या एकवारवन्दनेत्यर्थः, उत्कृष्टा तु विधिपूर्वकशकस्तवोपलक्षितपञ्चदण्डकनिमिता 'जय वीयराय' इत्यादिप्रणिधानपर्यन्ता चैत्यवन्दना भवतीति, अन्ये पुनः शक्रस्तवपञ्चकभणनेनोत्कृष्टचैत्यवन्दना भवतीति व्याचक्षते, एवं च शक्रतवपञ्चकं भवति-उत्कृष्टचैत्यवन्दनया वन्दितुकामः साधुः श्रावको वा चैत्यगृहादौ गत्वा यथोचितं प्रतिलेखितप्रमार्जितस्थण्डिलबैलोक्यगुरौ विनिवेशितनयनमानसः संवेगवैराग्यभरोज़म्भमाणरोमाञ्चकञ्चकितगात्रः प्राप्तप्रकर्षहर्षवशविसर्पद्वाष्पपूर|पूर्णनयननलिनः सुदुर्लभं भगवञ्चरणारविन्दवन्दनमिति बहुमन्यमानः सुसंवृत्ताङ्गोपाङ्गो योगमुद्रया जिनसम्मुखं शक्रस्तवमस्खलितादिगुणोपेतं पठति, तदनु ऐपिथिकीप्रतिक्रमणं करोति, ततः पञ्चविंशत्युच्छासमानं कायोत्सर्ग कृत्वा पारयित्वा 'लोगस्सुजोयगरे' इत्यादि परिपूर्ण भणित्वा जानुनी च भूमौ निवेश्य योजितकरकुशेशयस्तथाविधसुकविकृतजिननमस्कारभणनपूर्व शक्रस्तवादिभिः पञ्चभिर्द
Jain Education
For Private & Personel Use Only
Olainelibrary.org