________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
॥ २२२ ॥
Jain Education
| आदिशब्दाच्चैत्य प्रवेशादिपरिग्रहः, बहिर्देशाद्वसत्यादौ प्रविशन् नैषेधिकीं विदध्यादिति भावः ॥ ७६५ ॥ साम्प्रतमापृच्छादिद्वारचतुष्टयमेकगाथया प्राह- 'आपुच्छेत्यादि, आपृच्छनमापृच्छा सा च कर्तुमभीष्टे कार्ये प्रवर्तमानेन गुरोः कार्या भगवन् ! अहं इदं करोमीति द्वारं । तथा पूर्वनिषिद्धेन सता यथा त्वयेदं न कर्तव्यमिति, उत्पन्ने च प्रयोजने कर्तुकामेन 'होइ पडिपुच्छ'त्ति भवति प्रतिपृच्छा, पूज्यैरिदं निषिद्धमासीत् इदानीं तेन कार्येण प्रयोजनं यदि पूज्या आदिशन्ति तदा करोमीत्येवंरूपा, पाठान्तरं वा 'पुव्वनिउत्तेण होइ पडिपुच्छत्ति पूर्वं नियुक्तेन सता यथा भवतेद् कार्यमिति तत्कर्तुकामेन गुरोः प्रतिपृच्छा भवति कर्तव्या अहं तत्करोमीति, तत्र हि गुरुः कदाचित्कार्याअन्तरमादिशति समाप्तं वा तेन प्रयोजनमिति द्वारं । तथा पूर्वगृहीतेनाशनादिना छंदना शेषसाधुभ्यः कर्तव्या यथा मयेदमशनाद्यानीतं यदि कस्यचिदुपयुज्यते ततोऽसाविच्छाकारेण ग्रहणं करोत्विति द्वारं । तथा निमन्त्रणा भवत्यगृहीतेनाशनादिना यथाऽहं भवतां | योग्यमशनाद्यानयामीति द्वारं ॥ ७६६ ॥ इदानीमुपसम्पद्वारमाह - 'उवेत्यादि, उपसम्पदनमुपसम्पत् कस्माच्चिदप्यपरगुरुकुलादपरस्य विशिष्टश्रुतादियुक्तस्य गुरोः समीपागमनमिति, सा च त्रिधा - ज्ञाने- ज्ञानविषया एवं दर्शनविषया चारित्रविषया च तत्र ज्ञानदर्शनयोः सम्बन्धिनी त्रिधा भवति-वर्तना सन्धना ग्रहणं च एतदर्थं हि उपसम्पद्यते इति, तत्र वर्तना - पूर्वगृहीतस्यैवास्थिरस्य सूत्रादेर्गुणनमिति, सन्धना च तस्यैव सूत्रादेः प्रदेशान्तरे विस्मृतस्य मीलना घट्टना योजनेत्यर्थः ग्रहणं पुनस्तस्यैव तत्प्रथमतया आदानं, एतत् त्रितयमपि सूत्रार्थतदुभयविषयमवगन्तव्यं, एवं ज्ञाने नव भेदाः, तथा दर्शनेऽपि दर्शनप्रभावकसंमत्यादिशास्त्रविषये एत एव भेदा विज्ञेया इति, तथा चारित्रविषया द्विधा सम्पत् - वैयावृत्त्यविषया क्षपणविषया च, अयमाशयः - चारित्रार्थमन्यगच्छसत्काचार्याय कश्चिद्वैयावृत्त्यकरत्वं प्रतिपद्यते, स च कालतः कश्चिदित्वरकालं कश्चिच यावज्जीवमिति, अत्राह परः - ननु किमत्रोपसम्पदा कार्य ?,
For Private & Personal Use Only
१०१ च
ऋवालसमाचारी
JIT.
७६०-७
॥ २२२ ॥
v.jainelibrary.org