________________
स्वगच्छ एवायं चारित्रार्थ किमिति वैयावृत्त्यं न करोति ?, सत्यं, स्वगच्छे न तथाविधा निर्वाहादिसामग्री वैयावृत्त्यादिकरणक्षमा समस्ति ततः परगच्छोपसम्पदं करोतीति, तथा क्षपणविषयैवं भवति-यथा कश्चित्क्षपणार्थमुपसम्पद्यते, स च क्षपको द्विविधः-इत्वरो यावत्कथिकश्च, यावत्कथिक उत्तरकालेऽनशनकर्ता, इत्वरस्तु द्विविधो-विकृष्टक्षपकोऽविकृष्टक्षपकश्च, तत्राष्टमदशमादिकर्ता विकृष्टक्षपकः, पष्ठान्ततपःकारी तु अविकृष्टक्षपक इत्यादिस्वरूपमावश्यकादिभ्यो विज्ञेयमिति, एषा हुः-स्फुटं चक्रवाले-चक्रवालविषया चक्रवत्प्रतिपदं भ्रमन्ती दशविधा सामाचारी विज्ञेयेति शेषः, तथा अन्या च वक्ष्यमाणा सामाचारी दशविधा ज्ञेया ।। ७६७ ॥ तामेवाह
पडिलेहणा १ पमजण २भिक्खि ३रिया ४ऽऽलोग ५ भुंजणा ६ चेव । पत्तगधुयण ७वियारा ८
थंडिल ९ आवस्सयाईया १० ॥ ७६८॥ पूर्वाहेऽपराहे च वस्त्रपात्रादीनां प्रत्युपेक्षणा विधेया १ तथा प्रमार्जना वसतेः पूर्वाहेऽपराहे च कर्तव्या २ तथा कृतकायिकादिव्यापाराः पात्राणि गृहीत्वा आवश्यकीकरणपूर्व वसतेर्निर्गत्याहारादिषु मूर्छामकुर्वन्तः पिण्डग्रहणैषणायां सम्यगुपयुक्ताः साधवो 'मिक्ख'त्ति मिक्षां गृह्णन्ति ३ तथा भिक्षाग्रहणानन्तरं नैपेधिकीपूर्व वसतौ प्रविश्य 'नमः क्षमाश्रमणेभ्य' इत्येवंरूपं वाचिकं नमस्कारमुच्चार्य योग्यदेशं चक्षुःप्रत्युपेक्षणापुरस्सरं रजोहरणेन प्रमृज्य 'ईरिय'त्ति ईर्यापथिकी प्रतिक्रामन्ति ४ कायोत्सर्गे च मिक्षाभ्रमणभाविनो निर्गमनादारभ्य प्रवेशपर्यन्तान् पुरःकर्मादीनतिचारान् गुरुनिवेदनार्थ चिन्तयन्ति, पारयित्वा च चतुर्विंशतिस्तवं पठन्तीति, तथा च चतुर्विशतिस्तवपाठानन्तरं भावतश्चारित्रपरिणामापन्नाः सन्तो गुरोर्गुरुसम्मतस्य वा ज्येष्ठार्यस्य पुरतो यदोदनादि येन प्रकारेण करोटिकाप्रभृतिभा|जनादिना गृहीतं तत्सर्व तथैव प्रवचनोक्तेन विधिना 'आलोय'त्ति आलोचयन्ति निवेदयन्तीत्यर्थः, तदनन्तरं दुरालोचितभक्तपानयो
प्र.सा.३८
Jnin Education in
SRI
For Private
Personal Use Only
M
inelibrary.org