SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ROSECUSERECTR कारप्रयोगः क्रियते ?, उच्यते, बलाभियोगो मा भूदिति हेतोः, तथा चाह-यतो न कल्पते बलाभियोगः साधूनां, तत इच्छाकारप्रयोगः कर्तव्यः, तुशब्दः कचिद्बलाभियोगोऽपि कल्पते इति सूचनार्थः ॥ ७६२ ॥ सम्प्रति मिथ्याकारविषयप्रतिपादनार्थमाह-'संजमजोए' गाहा, संयमयोगः-समितिगुप्तिरूपः तस्मिन् विषयेऽभ्युत्थितस्य सतो यत्किञ्चिद्वितर्थ-अन्यथाऽऽचरितं-आसेवितं भूतमिति शेषः,8 मिथ्या विपरीतमेतदिति विज्ञाय, किं ?-मिथ्येति कर्तव्यं-तद्विषये मिथ्यादुष्कृतं दातव्यमित्यर्थः, संयमयोगविषयायां च प्रवृत्ती वितथासेवने मिध्यादुष्कृतं दोषापनयनाय समर्थ न तूपेत्यकरणविषयायां नाप्यसकृत्करणगोचरायामिति ॥ ७६३ ॥ इदानीं तथाकारो यस्य दीयते तत्प्रतिपिपादयिपुराह-'कप्पाकप्पे' गाहा, कल्पो विधिराचार इति पर्यायाः कल्पविपरीतस्त्वकल्पो जिनस्थविरकल्पादिर्वा कल्पः चरकसुगतादिदीक्षा पुनरकल्प इति, कल्पश्चाकल्पश्च कल्पाकल्पमित्येकवद्भावः तस्मिन् परि-समन्तानिष्ठितः परिनिष्ठितो. ज्ञाननिष्ठां प्राप्तस्तस्य, अनेन च ज्ञानसम्पदुक्ता, तथा तिष्ठंति मुमुक्षवो येषु तानि स्थानानि-महाव्रतानि तेषु पञ्चसु-पञ्चसङ्ख्येषु स्थितस्य-आश्रितस्य, अनेन च मूलगुणसम्पत्तिरुक्ता, तथा संयमः-प्रत्युपेक्षोत्प्रेक्षादिः तपश्च-अनशनादि ताभ्यामादयस्य-सम्पन्नस्येत्यनेनोत्तरगुणयुक्ततामाह, तस्य, किमित्याह-'अविकल्पेन' निर्विकल्पं तदीयवचने वितथत्वाशङ्कामकुर्वाणेनेत्यर्थः तथाकारः, कार्य है। इत्यध्याहारः, कोऽभिप्रायः ?-एवंविधस्य गुरोर्वाचनादानादौ पृच्छनानन्तरमुत्तरदाने तथा सामाचारीशिक्षणादौ च यथा यूयं वदथ तथैवैतदित्यर्थसंसूचकस्तथाशब्दः प्रयोक्तव्यः ॥ ७६४ ॥ इदानीमावश्यिकीनैषेधिकीद्वारद्वयमाह- आवे'त्यादि, आवश्यकी विधेया वसतेर्निर्गच्छता साधुना अवश्यं गन्तव्ये ज्ञानादित्रयहेतुभूते मिक्षाटनादौ कारणे सति, अनेन निष्कारणगमननिषेध उक्तः, तथा बहिर्देशानिवृत्तेन तस्मिन् स्थाने नैषेधिकी विधेया यत्र शय्यास्थानाद्याचरति, तत्र शय्या-वसतिस्तस्यां स्थानं-अवस्थानं तच्च प्रस्तावात्प्रवेशलक्षणं १. एवंविधस्य गुरावा ७६४ ॥ इदानीमावकारणे सति, अनेन SASSZOROSAS E SSESE HainEducation For Private Personel Use Only A jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy