________________
प्रव० सारोद्धारे
॥ २२१ ॥
Jain Education
'इच्छे' यादिगाथाष्टकं, एषणमिच्छा करणं-कारः, कारशब्दः प्रत्येकमभिसम्बध्यते, इच्छया - बलाभियोगमन्तरेण करणं इच्छाकारः, तथा च इच्छाकारेण ममेदं कुर्विति, किमुक्तं भवति ? - इच्छाक्रियया न बलाभियोगपूर्विकया ममेदं कुर्विति, तथा मिथ्या वितथमनृतमिति पर्यायाः, मिथ्याकरणं मिथ्याकारो मिथ्याक्रियेत्यर्थः, तथा संयमयोगवितथाचरणे विदितजिनवचनसाराः साधवस्तत्क्रियाया वैतथ्यप्रदर्शनाय मिथ्याकारं विधते मिथ्याक्रियेयमिति, तथाकरणं तथाकारः, स च सूत्रप्रनादिगोचरो यथा भवद्भिरुक्तं तथैवेदमित्येवं स्वरूपः, तथा अवश्यं अवश्यशब्दोऽकारान्तोऽप्यस्ति ततोऽवश्यस्य - अवश्यं कर्तव्यस्य क्रिया आवश्यकी, चः समुच्चये, तथा निषेधेन-असंवृतगात्र चेष्टानिवारणेन निर्वृत्ता तत्प्रयोजना वा या शय्यादिप्रवेशनक्रिया सा नैषेधिकी, तथा आपृच्छनमापृच्छा सा विहारभूमिगमनादिषु प्रयोजनेषु गुरोः करणीया, चः पूर्ववत्, तथा प्रतिपृच्छा-प्रतिप्रश्नः, सा च प्राग्नियुक्तेनापि करणकाले कार्या निषिद्धेन वा प्रयोजनतः कर्तुकामेनेति, तथा छंदना - पूर्वगृहीतेनाशनादिना आमन्त्रणा विधेया, तथा निमन्त्रणा अगृहीतेनैवाशनादिना अहं भवदर्थमशनाद्यानयामीत्येवंरूपा, तथोपसम्पच्च विधिना देया, इयं काले-कालविषये सामाचारी भवेद् दशविधा, एवं तावत्समासत उक्ता, सम्प्रति प्रपञ्चतः प्रतिपदमभिधित्सुरिदमाह-- एतेषां पदानां तुर्विशेषणे विषयप्रदर्शनेन प्रत्येकं पृथक्पृथक्प्ररूपणां वक्ष्ये - कथयिष्यामि || ७६० ।। ७६१ ।। तत्रेच्छाकारो येष्वर्थेषु क्रियते तत्प्रदर्शनार्थमाह – 'जई 'त्यादि, यदीत्यभ्युपगमे अन्यथा साधूनामकारणे अभ्यर्थनैव न कल्पते, ततश्च यदि अभ्यर्थयेत्परं - अन्यं साधुं ग्लानादौ कारणजाते समुत्पन्ने सति, ततस्तेनाभ्यर्थयमानेन इच्छाकारः प्रयोक्तव्यः, यदिवा अनभ्यर्थितोऽपि कोऽप्यन्यः साधुः 'से 'ति तस्य कर्तुकामस्य कस्यचित्साधोः कारणजाते कुर्यात्, तत्रापि तेनानभ्यर्थितेन साधुना तस्य चिकीर्षितं कर्तुकामेन इच्छाकारः प्रयोक्तव्यः, इह विरलाः केचिदनभ्यर्थिता एव परकार्यकर्तार इति कोऽपीतिग्रहणं, अथ कस्मादिच्छा
For Private & Personal Use Only
१०१ चक्रवालसमाचारी
गा.
७६०-७
॥ २२१ ॥
w.jainelibrary.org