________________
दो यत्ति अनयाऽपि गाथया चतुर्विशतेरपि जिनानामाशंसाकरणपूर्व प्रणिधानं कृतमिति एकादशोऽधिकारः, 'वेयावच्चगराण'त्तिअनेनापि सूचित'वेयावच्चगराणं संतिगराण' इत्यादिकायोत्सर्गकरणतदीयस्तुतिदानपर्यन्तेन द्वादशोऽधिकारः कथितः, एतानि 'नमो|ऽत्थु' इत्यादीन्यधिकारोल्लिङ्गनपदानि ज्ञेयानीति गाथाद्वयतात्पर्यार्थः ॥ ८६ ॥ इदानीं यस्मिन्नधिकारे ये जिनादयो वन्द्यन्ते तान् स्वयमेव सूत्रकारो दर्शयति-पढमे छडे'त्यादि गाथाद्वयं, तत्र प्रथमेऽधिकारे शक्रस्तवरूपे 'जियभयाणं' इतिपर्यन्ते. तथा षष्ठे 'पुक्खरवरदीवड्डे' इत्यादिरूपे तथा नवमेऽधिकारे 'जो देवाणवि देवो' इत्यादिरूपे तथा दशमेऽधिकारे 'उजिंतसेलसिहरे' इत्यादिरूपे तथैकादशेऽधिकारे 'चत्तारि अट्ठदस' इतिस्वरूपे भावजिनान् द्वितीयगाथान्ते 'सरेमि' इतिक्रियापदकरणात् स्मरामि वन्दनीय-II तयेति, भावजिनाश्च सकलत्रैलोक्यातिशायिनीमशोकादि विशिष्टाष्टप्रातिहार्यरूपामार्यजननिकरनयननलिनामां परमोत्सवायमानामपारसं||सारपारावारनिमजजनतोत्तारणतरीकल्पामविकल्पकल्पद्रुमचिन्तारत्नादिभ्योऽप्यसमानमहिमानमुन्मीलनिर्मलकेवलालोकबलपरिकलितलोकालोकामद्भुतां विभूतिमनुभवन्तस्तीर्थकराः । तथा 'अरिहंतचेइयाणं' इत्यादिके तृतीयेऽधिकारे 'सव्वलोए अरहंतचेइयाणं' इत्यादिरूपे पञ्चमे च यथाक्रमं साक्षाद्विवन्दिषितदेवगृहस्थापितप्रतिमारूपान् भवनपतिव्यन्तरज्योतिषिकवैमानिकनन्दीश्वरमन्दरकुलाचलाष्टापदसम्मेतशैलशिखरशत्रुञ्जयोजयन्तादिसर्वलोकस्थितशाश्वताशाश्वतदेवगृहस्थापितजिनेन्द्रबिम्बरूपांश्च जिनान् स्मरामीति ॥ ८७ ॥ तथा 'तमतिमिरपडल' इत्यादिके सप्तमेऽधिकारे निखिलकुमततिमिरनिकरापहारकारि ज्ञानं स्मरामीति, तथा अष्टमे 'सिद्धाणं बुद्धाणं'। | इत्यादिरूपे द्वितीये 'जे य अईया सिद्धा' इतिरूपे चतुर्थे 'लोगस्स उज्जोयगरे' इत्यादिरूपे च यथासङ्घयं सिद्धान् द्रव्यजिनान् नामजिनांश्च स्मरामीति, तथा 'वेयावच्चगराणं करेमि काउस्सग्गं' इत्यादिरूपे द्वादशेऽधिकारे वैयावृत्त्यकरसुरान् स्मरामीति ।। ८८ ॥
प्र.सा.
Jain Education
For Private & Personel Use Only
Virjainelibrary.org