________________
प्रव० सा-पल देवगृहादौ स्थापितानां जिनबिम्बानां वन्दनं कर्तुमारब्धं तान्यनेन 'अरहंतचेइयाणं' इतिदण्डकेन वन्द्यन्ते इति स्थापनार्हद्वन्दनो|१ चैत्यव. रोद्धारे नामाऽयं तृतीयोऽधिकारः, 'लोगस्स'त्ति 'लोगस्सुज्जोयगरें' इतिदण्डकेनास्यामवसर्पिण्यामेकक्षेत्रनिवासिनां भव्यजनस्य भवभावि- न्दनद्वारे तत्त्वज्ञा- सकलक्लेशापहारकत्वेनासन्नवर्तिनां चतुर्विशतेरपि तीर्थकृतां नामोत्कीर्तनपुरस्सरं स्तवः क्रियते इति जिननामोत्कीर्तनो नाम चतुर्थी
द्वादशानवि० लाधिकारः, 'सव्वलोए' इतिगाथावयवसूचितः 'सव्वलोए अरिहंतचेइयाणं' इत्यादिनोर्डाधोलोकमर्त्यलोकस्थितशाश्वताशाश्वतदेवगृह
धिकाराः | स्थापितानां श्रीजिनबिम्बानां वन्दनं क्रियते इति सर्वलोकदेवगृहजिनस्थापनास्तवोऽयं पञ्चमोऽधिकारः, तथा 'पुक्खर'त्ति गाथाक्षरत्रयेण ॥१८॥
निवेदितः 'पुक्खरवरदीवड्ढे' इत्यादिपरिपूर्णगाथाकेन पुष्करवरद्वीपार्धधातकीखण्डजम्बूद्वीपवर्तिनामर्हता स्तवः क्रियते इति अर्धतृतीयद्वीपवर्तिभावार्हत्स्तवोऽयं षष्ठोऽधिकारः, ननु श्रुतस्तवाधिकार, एवेदानी प्रस्तुतः तत्कथमप्रस्तुतस्तीर्थकृतां स्तवः क्रियते ? इति, सत्यमेतत् , तथापि श्रुतस्य कारणं भगवन्तस्तीर्थकरा एव, तैरेव प्रवर्तितत्वात् , 'अत्थं भासइ अरिहा' इत्यागमवचनात् , गणधराणामपि | सूत्रकर्तृणामर्थस्य तीर्थकरैरेव कथितत्वादिति, अन्यच्च एतदेव श्रुतस्तवे प्रस्तुतेऽपि तीर्थकरस्तवकरणं ज्ञापयति यत्किञ्चित्कार्यजातं क्रियते श्रेयोऽर्थिभिस्तत्सर्व तीर्थकृन्नमस्कारपुरस्सरमेव करणीयं, इत्थमेव सर्वकल्याणप्राप्तेरिति, 'तमतिमिर' इतिगाथाक्षरैः सूचिताग्रेतनसूत्रैः श्रुतं स्तूयत इति श्रुतस्तवोऽयं सप्तमोऽधिकारः, 'सिद्धाणं' इत्यनेन निवेदितसकलगाथाकेन सिद्धस्तुत्यभिधानोऽष्टमोऽधिकारः ॥ ८५ ॥ 'जो देवाणवित्तिगाथाक्षरैः सूचितेन गाथाद्वयेन एतत्तीर्थस्य प्रवर्तकत्वादासन्नतरतया महोपकारकारित्वाद्भगवतो महावीरस्य स्तवस्तनमस्कारफलप्रकटनपरो विधीयत इति वीरस्तवो नामायं नवमोऽधिकारः, 'उजिंतसेल'त्ति अनेनापि पदावयवेन सूचितसकलगाथाकेन
सा॥१८॥ सकलत्रिलोकीतिलकायमानस्य भगवतः श्रीनेमिनाथस्य स्तवो विधीयते इति श्रीनेमिनाथस्तवोऽयं दशमोऽधिकारः, 'चत्तारि अट्ठदस
CASSAX
Jain Education
For Private & Personel Use Only
21ainelibrary.org