SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ॥ ८४ ॥ पढम नमोऽत्थु १ जे अइयसिद्ध २ अरहंतचेइयाणंति ३ । लोगस्स ४ सवलोए ५ पुक्खर ६ तमतिमिर ७ सिद्धाणं ८॥ ८५॥ जो देवाणवि ९ उजिंत सेल १० चत्तारि अट्ठ दस दो य११। वेयावच्चगराण य १२ अहिगारुल्लिंगणपयाई ॥८६॥ पढमे छट्टे नवमे दसमे एक्कारसे य भावजिणे । तइयंमि पंचमंमि य ठवणजिणे सत्तमे नाणं ॥ ८७॥ अट्ठमबीयचउत्थेसु सिद्धदव्वा रिहंतनामजिणे । वेयावच्चगरसुरे सरेमि बारसमअहिगारे ॥ ८८॥ | 'दुन्नेगमित्यादि द्वावधिकारौ शक्रस्तवे, एकोऽर्हचैत्यस्तवे, द्वौ चतुर्विंशतिस्तवे, द्वौ श्रुतस्तवे, पञ्चैव सिद्धस्तवदण्डके भवन्त्यधिकाराः, अधिक्रियन्ते-समाश्रीयन्ते इत्यधिकाराः-प्रस्तावविशेषाः, तानाश्रित्य चैत्यवन्दनं विधीयत इति शक्रस्तवादिष्विह स्तोतव्यविशेषविषया इति ॥ ८४ ॥ तत्र यथायथं तान्येव दर्शयति-'पढम नमोऽत्थु'इत्यादि 'नमोऽत्थुणं' इत्यारभ्य 'जियभयाणं' इतिपर्यन्तेन सिद्धिप्राप्तानां भावाहतां सद्भूतगुणोत्कीर्तनरूपः प्रथमोऽधिकारः, भावार्हन्तोऽत्र स्तुता इत्यर्थः । 'जे अईया सिद्धा' इत्यनेनोपलक्षितया गाथया द्वितीयोऽधिकारः कथितः, अत्र च द्रव्याहतां वन्दना विधीयते, द्रव्यभूता अर्हन्तो द्रव्याहन्तो येऽहत्त्वं-चतुस्लिंशदतिशयवत्त्वं प्राप्य सिद्धा ये च तत्प्राप्स्यन्ति क्रमेण तेऽत्र वन्द्यन्ते, यतः-'भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके। तद् द्रव्यं तत्त्वज्ञैः सचेतनाचेतनं प्रोक्तम् ॥ १॥ इति गणधरैर्द्रव्यलक्षणमुक्तं, न च वक्तव्यं-द्रव्याहन्तोऽप्यहद्भावापन्ना एव वन्दनीयत्वेनाभिमतास्ततः प्रथमाधिकारेणैव भावार्हता वन्दितत्वात् 'जे य अईया सिद्ध'त्ति पुनरुक्तमिति, यतो वर्तमाना भविष्यन्तश्च जिनाः प्राप्ताईद्भावा एव 18 वन्दनीयाः न नरकादिभववर्तिनः इत्यस्यार्थस्य ख्यापनार्थमुक्तत्वादेतस्य पदस्येति, एष द्रव्याहद्वन्दनो द्वितीयोऽधिकारः । तथा येषां Jain Education a l For Private Personal Use Only D ainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy