________________
प्रव० सारोद्धारे तत्त्वज्ञानवि०
१ चैत्यवन्दनद्वारे सम्पदः
विस्तरेण साधितत्वादिति शक्रस्तवसम्पदां प्रथमोल्लिङ्गनपदानि ज्ञेयानि, पुल्लिङ्गनिर्देशश्व प्राकृतत्वाददुष्टः, आलापकाश्चात्र त्रयस्त्रिंशद्विज्ञातव्याः। या च 'जे अईया सिद्धा' इति गाथा साऽप्यवश्यं भणनीया, शक्रस्तवान्ते पूर्वैर्महाश्रुतधरैरभिहितत्वात् , न पुनरौपपातिकादिषु 'नमो जिणाणं जियभयाणं' इति पर्यन्तस्य शक्रस्तवस्त्र पठितत्वान्नेयं गाथाऽस्माभिः स्वयं भण्यत इति कुबोधाऽऽप्रहप्रस्तमानसैनवनवानल्पविकल्पकल्पनाकुशलैराधुनिकैरिव कैश्चिन्न पठनीया, प्राक्तनैरशठैरनभिमानैर्गीताथैः सूरिभिराहतस्य पक्षस्यादरणीयत्वादिति ॥८१॥ 'अरिहंतचेइयाणं' इति दण्डकेऽष्टौ सम्पदस्तासामाद्यपदनिरूपणार्थमाह-अरिहं वंदणे'त्यादि तत्राईमित्यनेन सूचिताद्यपदा पदद्वयनिष्पन्ना प्रथमा सम्पत् , 'वंदण 'मित्यनेन सूचिताद्यपदा पदषटुनिष्पन्ना द्वितीया सम्पत् , 'सद्धे'ति गाथावयवेन निवेदिताद्यपदा पदसप्तकनिर्मिता तृतीया सम्पत् , 'अन्नत्थू' इति गाथाक्षरत्रयेण निर्मिताद्यपदा पदनवकनिर्मिता चतुर्थी सम्पत् , 'सुहमति' गाथावयवेन सूचिताद्यपदा पदत्रयनिष्पन्ना पञ्चमी सम्पत् , 'एवेति गाथाक्षरद्वयेन प्रकटीकृताद्यपदा पदषटकनिष्पन्ना षष्ठी सम्पत् , 'जे'तिगाथाक्षरेण सूचिताद्यपदा पदचतुष्टयनिष्पन्ना सप्तमी सम्पत् , 'तावे तिगाथाक्षराभ्यां सूचिताद्यपदा पदषटुनिष्पन्ना अष्टमी सम्पदिति अर्हचैत्यस्तवे विश्रामाणां प्रथमानि पदानि, आद्यानां च पदानां परिज्ञाने मध्यमानि पदानि सुगमान्येवेति ॥ ८२ ॥ इदानीं चतुर्विशतिस्तवदण्डके ज्ञानस्तवदण्डके सिद्धस्तवदण्डके चैकयैव गाथया सम्पत्परिमाणमाह-'अट्टावीसे'त्यादि, अष्टाविंशतिः षोडश विंशतिश्च यथाक्रमेण| यथासङ्ख्येन निर्दिष्टा-निवेदिता नामजिनस्तवनादिषु-'लोगस्सुज्जोयगरे' इत्यादिषु त्रिषु दण्डकेषु विश्रामाः पादमानेन-श्लोकादिचतुर्थभागसङ्ख्ययेति ॥ ८३ ॥ इदानीमस्यां चैत्यवन्दनायां द्वादशाधिकारास्तान् यथायथं दर्शयन्नाह
देण्णे 'गं दुण्णि Qगं पंचेव कमेण हंति अहिगारा । सक्कत्थयाइसु इहं थोयव्वविसेसविसया उ
॥ १७॥
Jain Educati
o
nal
For Private Personel Use Only
P
Mw.jainelibrary.org