SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Jain Education रत्वेन स्वयंसम्बोधतश्चैते भवन्ति, 'पुरिसो' इत्यनेन गाथावयवेन सूचिताद्यपदा चतुष्पदनिष्पन्ना तृतीया सम्पद्भणिता, एषा च स्तोतव्यसम्पद एवासाधारणगुणरूपा हेतुसम्पत्कथिता, पुरुषोत्तमानामेव सिंहपुण्डरीकगन्धहस्तिधर्मभाक्त्वेन स्तोतव्यतोपपत्तेः, 'लोगो' | इत्यनेन गाथाक्षरद्वयेन प्रकटिताद्यपदा पञ्चपदनिर्मिता चतुर्थी सम्पदभिहिता, एषा च स्तोतव्यसम्पद एव सामान्येन सर्वजनोपकारित्वलक्षणेनोपयोगसम्पत्, लोकोत्तमत्वलोकनाथत्वलोक हितत्व लोकप्रदीपत्व लोकप्रद्योतकरत्वानां परार्थत्वादिति, 'अभय' इत्यनेन तु गाथावयवेनामिव्यक्तादिपदा पञ्चाऽऽलापक परिमाणा पञ्चमी सम्पद्विज्ञेया, एषा चास्या एवोपयोगसम्पदो हेतुसम्पद् ज्ञातव्या, अभयदानश्चक्षुर्दानमार्गदानशरणदानबोधिदानैः परार्थसिद्धेरिति । 'धम्म'त्ति गाथावयवेन ज्ञापिताद्यपदा पञ्चपदघटिता षष्ठी सम्पन्निवेदिता, एषा च स्तोतव्यसम्पद एव विशेषेणोपयोगसम्पद्बोद्धव्या, धर्मदत्वधर्मदेशकत्वधर्म नायकत्वधर्मसारथित्वधर्मवरचातुरन्तचक्रवर्तित्वेभ्य एव तस्याः स्तोतव्यसंपदो विशेषेणोपयोगात्, 'अप्प'त्तिगाथाक्षरद्वयेन निरूपिताद्यपदा आलापकद्वयनिष्पन्ना सप्तमी सम्पदभिहिता, एषा च स्तोतव्यसम्पद एव सकारणा स्वरूपसम्पद्, अप्रतिहतवरज्ञानदर्शनधरा व्यावृत्तच्छद्मानश्च यतोऽर्हन्तो भगवन्तश्च भवन्तीति, 'जिण 'त्ति गाथालवेन प्रादुष्कृताद्यपदा आलापकचतुष्टयनिर्मिताऽष्टमी सम्पन्निवेदिता, इयं चात्मतुल्य परफलकर्तृत्वसम्पत्प्रतिपादिता, जिनजापकत्वतीर्णतारकत्वबुद्धबोधकत्वमुक्तमोचकत्वानामेवंविधस्वरूपत्वादिति, 'सव्व 'त्ति गाथाक्षरद्वयेन संसूचिताद्यपदा आलापकत्रयनिर्मिता 'जियम - याणं' इति पर्यन्ता नवमी सम्पद्, इयं च प्रधानगुणापरिक्षयप्रधानफलप्रात्या अभयसम्पदभिहिता, इयं चात्मतुल्यपरफलकर्त्तृसर्वज्ञ सर्वदर्शिनामेव शिवाचलादिस्थानप्राप्तौ जितभयत्वोपपत्तेरिति । एताश्च सम्पदोऽनन्तधर्माध्यासिते वस्तुनि मुख्ये सति मुख्यवृत्त्या स - म्भवन्त्येव, न चानन्तधर्मात्मकत्वं वस्तुनोऽनुपपन्नमिति वाच्यं तस्यान्यत्रास्मद्गुरुप्रणीतप्रमाणप्रकाशवाद महार्णव । दिमहातर्कप्रन्थेषु For Private & Personal Use Only Jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy