________________
प्रव० सा
रोद्धारे
तत्वज्ञानवि०
॥ २१३ ॥
Jain Education In
----
करणविषया भक्तपानविषया च, पुनरेकैका द्विधा - सबाह्याभ्यन्तरा - बाह्याभ्यन्तरभेदयुक्ता, बाह्या अभ्यन्तरा चेत्यर्थः, तत्र उपकरणवि पिया बाह्या संयोजना यथा कश्चित्साधुः कुत्रापि गृहे भव्यं चोलपट्टादिकं प्राप्य पुनरन्यत्र विभूषार्थं तदुचितं पटीप्रभृतिकं मार्गयित्वा वसतेर्बहिरेव प्रावृणोतीति, अभ्यन्तरा वसतौ निर्मलं चोलपट्टादिकं परिधाय विभूषानिमित्तं तद्नुरूपां निर्मलामेव नर्मादिपटी परिधातीति, तथा मिक्षार्थं हिण्डमानः सन् क्षीरादिकमनुकूलद्रव्यैः खण्डादिभिः सह रसगृद्ध्या रसविशेषोत्पादनाय बहिरेव संयोजयतीत्येषा बाह्या भक्तपानविषया संयोजना, अभ्यन्तरा पुनर्यद्वसतावागत्य भोजनवेलायां संयोजयतीति सा च त्रिधा - पात्रकविषया कवलविषया मुखविषया च तत्र भोजनसमये यत्पायसादि येन खण्डादिना रोचते तद्रसगृद्ध्या तेनैव सहैकस्मिन्नेव पात्रे संयोज्य स्थापयतीति प्रथमा, यदा तु हस्तगतमेव कवलतया उत्पाटितं सुकुमारिकादिकं खण्डादिना सह संयोजयति तदा द्वितीया, यदा पुनर्मण्डकादिकं मुखे प्रक्षिप्य पश्चाद्गुडादिकं प्रक्षिपति तदा तृतीयेति, अपवादश्चात्र - एकैकं साधुसङ्घाटकं प्रति प्रचुरघृतादिप्राप्तौ सत्यां भोजनानन्तरं यदि | कथमपि कियदप्युद्धरितं भवति तदा तदुद्धरितघृतादिनिर्गमनार्थं खण्डादिभिरपि तस्य संयोजनं न दोषाय, उद्धरितं हि घृतादि न खण्डादिकमन्तरेण मण्डकादिभिरपि सह भोक्तुं शक्यते प्रायस्तृप्तत्वात् न च परिष्ठापनं युक्तं घृतादिपरिष्ठापने स्निग्धत्वात् पश्चादपि पिपीलिकादिप्राणिप्रणाशसम्भवात्, तथा ग्लानभव्यीकरणार्थं यद्वा भक्तारोचकिनः प्रधानाहारलालितस्य सुखोचितस्य राजपुत्रादेर्वा साधूचितेन संयोगरहिताहारेणाद्यापि सम्यगभावितस्य शैक्षकस्य वा निमित्तं रसगृद्ध्यापि संयोजना कल्पत एवेति ॥ ७३४ ॥ इदानीं प्रमाणमाह'कुक्कुडि' इत्यादि गाथापूर्वार्ध, कुर्कुट्यण्डकमात्राः कवला द्वात्रिंशद्भोजनप्रमाणे इति, तत्र कुर्कुटी द्विधा - द्रव्यकुर्कुटी भावकुर्कुटी च, तत्र साधोः शरीरमेव कुर्कुटी तन्मुखमण्डकं, तत्राक्षिकपोलौष्टभ्रुवां विकृतिमनापाद्य यः कवलो मुखे प्रविशति एतत्प्रमाणं कवलस्य, अथवा
For Private & Personal Use Only
९५ ग्रासैपणापंचकं
गा. ७३४७३८
॥ २१३ ॥
jainelibrary.org