________________
णि भोवणं भाकाहारस्तु अब तच तण्डल
SAACASSEMESSACRESS
कुर्कुटी-पक्षिणी तस्या अण्डकं प्रमाणं कवलस्य, तथा यावन्मात्रेणाहारेण भुक्तेन न न्यून नाप्यत्याध्मातमुदरं भवति धृतिश्च विशिष्टा सम्प
द्यते ज्ञानदर्शनचारित्राणां च वृद्धिरुपजायते तावत्प्रमाण आहारो भावकुर्कुटी, तस्य द्वात्रिंशत्तिमो भागोऽण्डकं, तत्प्रमाणं कवलस्य, ततो ६ द्वात्रिंशत्कवलाः पुरुषस्याहारप्रमाणं, स्त्रियास्तु अष्टाविंशतिः नपुंसकस्य पुनश्चतुर्विंशतिः, उक्तं च तण्दुलवैचारिके-बत्तीसं कवला |
पुरिसस्स आहारो अट्ठावीसं इत्थियाए चउव्वीसं पंडयस्स"त्ति, अधिकाहारस्तु अजीर्यमाणः सन् व्याधये वमनाय मृत्यवे चेति, यदभ्यधायि-"अइबहुयं अइबहुसो अइप्पमाणेण भोयणं भुत्तं । हादेज्ज व वामेज व मारेज व तं अजीरंतं ॥ १॥” इति [अतिबहुकमतिबहुशः अतिप्रमाणेन भोजनं भुक्तं । हादयेद्वा वमयेद्वा मारयेद्वा तदजीर्यमाणं ॥ १ ॥] इदानीमङ्गारदोषमाह-राएणे'त्यादि उत्तरार्ध, रागेण-अन्नस्य तदातुर्वा प्रशंसारूपेणास्वादयन्-अभ्यवहरन् प्रासुकमप्याहारं करोति स्वचारित्रं साङ्गारं, चरणेन्धनस्याङ्गारभूतत्वात् , अयमत्र भावार्थ:-इह द्विधा अङ्गाराः-द्रव्यतो भावतश्च, तत्र द्रव्यतः कृशानुदग्धाः खदिरादिवनस्पतिविशेषाः, भावतो रागाग्निना निर्दग्धं चरणेन्धनं, ततो यथा दग्धमिन्धनं धूमे गते सति अङ्गार इत्युच्यते एवमिहापि चरणेन्धनं रागाग्निना निर्दग्धं सदङ्गारक इत्युच्यते, ततश्च भोजनगतविशिष्टगन्धरसास्वावशेन सञ्जाततद्विषयमूर्छस्य सतोऽहो सुमृष्टमहो सुसंभृतमहो स्निग्धं सुपक्कं सुरसं चेत्येवं प्रशंसातः सहाङ्गारेण यद्वर्तते तत्साङ्गारमिति ॥ ७३५ ॥ इदानीं धूमदोषमाह-'भुजंतो' इत्यादि गाथापूर्वार्ध, द्वेषेण-अन्नस्य तदायकस्य |वा निन्दात्मकेन अमनोज्ञम्-अमधुरमाहारं भुजानश्चरणं-चारित्रं सधूमकं करोति, निन्दात्मककलुषभावस्वरूपधूमसम्मिश्रत्वात् , अत्राप्ययं भावार्थ:-इह द्विविधो धूमस्तद्यथा-द्रव्यतो भावतश्च, तत्र द्रव्यतोऽर्धदग्धानां काष्ठानां सम्बन्धी भावतो द्वेषाग्निना दह्यमानस्य चरणेन्धनस्य सम्बन्धी कलुषभावो निन्दात्मकः, ततो यथाऽङ्गारत्वमप्राप्तं ज्वलदिन्धनं सधूममुच्यते एवं द्वेषाग्निना दह्यमानं चरणेन्धनमपि
RCROCCORRESCACCORCHECK
Jain EducatioL
ional
IITU
For Private Personal Use Only
Tww.jainelibrary.org