________________
९३ निम्र
प्रव० सा
रोद्धारे तत्त्वज्ञा
न्थपंचक गा.७१९
नवि०
७३०
॥२११॥
EXCLAM.
निर्ग्रन्थोऽचरमसमयनिर्ग्रन्थो यथासूक्ष्मनिर्ग्रन्थश्चेति, तत्रान्तर्मुहूर्तप्रमाणे निर्ग्रन्थकालसमयराशौ प्रथमसमये निर्ग्रन्थत्वं प्रतिपद्यमानः प्रथमसमयनिर्ग्रन्थः १, अन्यसमयेषु च वर्तमानोऽप्रथमसमयनिर्ग्रन्थः २ पूर्वानुपूर्व्या व्यपदिश्यते, तथा चरमे-अन्तिमे समये वर्तमानश्चरमसमयनिर्ग्रन्थः ३ शेषेषु पुनर्वर्तमानोऽचरमसमयनिर्ग्रन्थः पश्चानुपूर्व्या निर्दिश्यते, यथासूक्ष्मनिर्ग्रन्थः पुनः सामान्येन प्रथमादिसमयाविवक्षया सर्वेषु समयेषु वर्तमानो यथासूक्ष्मनिर्ग्रन्थः पञ्चम इति विवक्षया भेद एपामिति ॥ ७२६ ॥ अथैते उपशान्तमोहाः क्षीणमोहाश्च निर्ग्रन्था एकस्मिन् समये यावन्तः प्राप्यन्ते तदाह-'पाविज्जई' गाहा, एकस्मिन् समये प्रवेशमङ्गीकृत्य प्राप्यतेऽष्टोत्तरशतं क्षपकाणां-क्षीणमोहानां, उपशामकाना-उपशान्तमोहानां पुनश्चतुष्पञ्चाशत् , इदं च उत्कर्षतः, जघन्येन तु क्षीणमोहा उपशान्तमोहाश्च एको वा द्वौ वा त्रयो वा प्राप्यन्ते, अयमभिप्राय:-क्षीणमोहास्तावत्कदाचिद्भवन्ति कदाचिन्न भवन्ति, क्षपकश्रेणेरुत्कर्षतः षण्मासमान| स्यान्तरस्य सद्भावान्निरन्तरमसम्भवात् , ततो यदा भवन्ति तदा युगपदेकसमये क्षपकश्रेण्यां जघन्यत एकादयः उत्कृष्टतोऽष्टोत्तरशतप्रमाणा एवं प्रविशन्ति नाधिकाः, एतच्च सूत्रे युगपदेकसमयप्रविष्टानङ्गीकृत्योक्तं, नानासमयप्रविष्टानङ्गीकृत्य पुनरुत्कृष्टतः शतपृथक्त्वं, तथाहि-अन्तर्मुहूर्तस्वरूपे क्षपकश्रेणिकाले एकस्मिन् समये युगपदेवैकादयो यावदुत्कृष्टतोऽष्टोत्तरशतप्रमाणा जीवा मोहक्षपणाय प्रविष्टाः अन्यस्मिन्नपि समये एतावन्तोऽपरस्मिन्नपि च समये एतावन्तः प्रविष्टाः एवं नानासमयप्रविष्टान् सर्वानप्यङ्गीकृत्य सर्वस्मिन्नप्यन्तर्मुहूर्तप्रमाणे क्षपकश्रेणिकाले सामान्येन पञ्चदशस्वपि कर्मभूमिषु कदाचिच्छतपृथक्त्वं क्षीणमोहानां प्राप्यते, ततः परं क्षपकश्रेणेरपि निरन्त
रमभावात् । आह-नन्वन्तर्मुहूर्तमानेऽपि क्षपकश्रेणिकालेऽसङ्ख्याताः समयाः प्राप्यन्ते, तत्र च प्रतिसमयं यद्येकैकः प्रविशति तथाप्यहै सङ्ख्यया भवन्ति किं पुनरष्टोत्तरशतप्रवेशे इति ?, अत्रोच्यते, स्यादेवं यदि प्रतिसमयमसङ्ख्यातेष्वपि समयेष्वेवं तत्प्रवेशः स्यात्, एतच्च
॥२११॥
CACCE
Jain Education
a INE
l
For Private Personel Use Only
jainelibrary.org