________________
नास्ति, केपचिदेव समयेष्वेवं तत्प्रवेशसम्भवात् तथैवातिशायिभिदृष्टत्वाद्गर्भजमनुष्याणामपि चासङ्ख्यातानामसम्भवाद्विशेषतस्तु चारि-18 |त्रिणां, न च गर्भजमनुष्यं चारित्रिणं मुक्त्वाऽन्यः क्षपकश्रेणि प्रतिपद्यत इति । तथा उपशान्तमोहा अपि कदाचिद्भवन्ति कदाचिन्न |
भवन्ति, उपशमश्रेणेरुत्कर्षतो वर्षपृथक्त्वप्रमाणस्यान्तरस्यापि सद्भावात् , तत्र च यदा भवन्त्यमी तदा जघन्यत एकादय उत्कर्षतस्तु चतुष्प-1 |ञ्चाशत्प्रमाणा एव जीवा एकस्मिन् समये उपशमणि प्रतिपद्यन्ते नाधिकाः, नानासमयप्रविष्टाः पुनरुत्कृष्टतः सयाताः, एतदुक्तं
भवति-अन्तर्मुहूर्तलक्षणे उपशमश्रेणिकाले एकस्मिन् समये युगपदेव एकादयो यावदुत्कृष्टतश्चतुष्पञ्चाशत् प्रविष्टाः अन्यस्मिन्नपि समये || एतावन्तः अपरस्मिन्नपि समये एतावन्तः प्रविष्टाः, एवं नानासमयप्रविष्टान् सर्वांनप्यङ्गीकृत्य सर्वस्मिन्नप्यन्तर्मुहूर्तमाने उपशमश्रेणिकाले | |सामान्येन सर्वस्मिन्नपि मनुष्यक्षेत्रे कदाचिदुत्कृष्टतः सङ्ख्याता उपशान्तमोहाः प्राप्यन्ते, ततः परमुपशमश्रेणेनिरन्तरमभावात् , असङ्ख्येयाः कथममी न प्राप्यन्ते ? इत्याद्याक्षेपपरिहारौ पूर्ववद्वाच्याविति ।। ७२७ ।। अथ स्नातकमाह-'सुहझाण' गाहा, शुभं-प्रशस्तं ध्यानंशुक्लध्यानलक्षणं तदेव कर्ममलापेक्षया-घातिकर्ममलपटलप्रक्षालनापेक्षया जलं-सलिलं तेन विशुद्धो-निर्मलः स्नातक इति भण्यते, क्षालितसकलघातिकर्ममलपटलत्वात् स्मात इव स्नातः स एव स्नातक: केवलीत्यर्थः, स च द्विविधो निर्दिष्टः-सयोगी अयोगी च, तत्र मनो
वाक्कायव्यापारवान् सयोगी सर्वथा समुच्छिन्नमनोवाक्कायव्यापारस्त्वयोगी, एतेषां च पुलाकादीनां व्याख्याप्रज्ञप्तौ पन्नवणवेय' इत्यादि1|ग्रन्थोक्तैः षट्त्रिंशता द्वारैर्विचारोऽस्ति ।। ७२८ ॥ तत्र बहुतरोपयोगित्वात् शेषद्वारोपलक्षणार्थ प्रतिसेवनाद्वारमाह-'मूलुत्तरगुण'|
गाहा, मूलगुणाः-प्राणातिपातनिवृत्त्यादयः उत्तरगुणाः-पिण्डविशुद्ध्यादयः तद्विषया 'प्रतिसेवा' सेवा-सम्यगाराधना तत्प्रतिपक्षस्तु प्रतिसेवा विराधनेत्यर्थः 'सेवए'त्ति सूचकत्वात्सूत्रस्य प्रतिसेवना कुशीले पुलाके च, अयमर्थः-पुलाकप्रतिसेवना कुशीलप्रतिसेवना, मूलगु
RRESEAR-SCREESEX
JainEduca
For Private
Personel Use Only
T
ww.jainelibrary.org