SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ Jain Education दशकरूपं भजेत् तस्य भागाकारं कुर्यात्, ततो लब्धाः पञ्च यतो दश द्विधा विभक्ताः पञ्चैव भवन्ति, 'लद्धहरा सिविभत्ते'त्ति अधोराशिना द्विकलक्षणेनोपरितने प्रथमे अङ्के दशकलक्षणे विभक्ते सति लब्धेन अङ्केन पञ्चकेन तस्य द्विकलक्षणस्योपरितनमङ्कं नवकलक्षणं गुणयेत्-ताडयेत्, जाताः पञ्चचत्वारिंशत्, इत्थं च गुणयित्वा संयोगा:- संयोगभङ्गा वाच्याः, यथा द्विकसंयोगे भङ्गाः पञ्चचत्वारिंशदिति, ततो भूयोऽपि त्रिकसंयोगभङ्गानयनाय प्रथमपादरहिता करणगाथा व्यापार्यते, यथाऽधस्तनराशिस्थितेन द्विकादनन्तरेण त्रिकेणोपरितनराशिव्यवस्थितं त्रिकोपरितनाटकरूपाङ्कापेक्षयाऽऽद्यं पञ्चचत्वारिंशल्लक्षणमंकं भजेत्, ततो लब्धाः पञ्चदश, यतः पञ्चचत्वारिंशत् त्रिधा विभक्ताः पञ्चदशैव भवन्ति, तैश्चाधोराशिनोपरितने अङ्के विभक्ते लब्धैः पञ्चदशभिस्त्रिकलक्षणस्याङ्कस्योपरितनमष्ट्रकलक्षणमङ्कं गुणयेत्, गुणिते च सति जातं विंशत्युत्तरं शतं एतावन्तस्त्रिकसंयोगे भङ्गाः, पुनश्चाधस्तनराशिस्थितेन त्रिकादनन्तरेण चतुष्क केणोपरितनराशिस्थितं चतुष्कोपरितनसप्तकरूपाङ्कापेक्षया प्रथमं विंशत्युत्तरशतलक्षणमंकं भजेत्, लब्धा त्रिंशत्, यतो विंशत्युत्तरं शतं चतुर्भिर्भक्तं त्रिंशदेव भवति, तया च त्रिंशता चतुष्कस्योपरि यः सप्तकः स गुण्यते, जाते द्वे शते दशोत्तरे, एतावन्तश्चतुष्ककसंयोगे भङ्गाः, एवं पञ्चकादिसंयोगेष्वपि भङ्गा आनेतव्याः यावदशकसंयोगे एको भङ्गः, एवं चैककसंयोगे दश भङ्गाः द्विकसंयोगे पञ्चचत्वारिंशत् त्रिकसंयोगे विंशं शतं चतुष्कसंयोगे द्वे शते दशोत्तरे पञ्चकसंयोगे द्वे शते द्विपश्वाशदधिके पटकसंयोगे द्वे शते दशोत्तरे सप्तकसंयोगे विंशं शतं अष्टकसंयोगे पञ्चचत्वारिंशत् नवकसंयोगे दश दशकसंयोगे एकः सर्वमीलने च त्रयोविंशत्युत्तरं सहस्रमशुद्धभङ्गानां भवति, चतुविशस्तु शुद्धो भङ्गो यद्यपि करणेन नागच्छति तथाप्येतन्मध्ये तं प्रक्षिप्य भङ्गसङ्ख्या पूरणीया, यतः सर्वभङ्गप्रसारे क्रियमाणे पर्यन्ते शुद्धभङ्गस्यागतिः, उक्तं च—“दस पणयाल विसोत्तरसयं च दोसय दसुत्तरा दो य । बावन्न दो दसुत्तर विसुत्तरं पञ्च चत्ता य ॥ १ ॥ For Private & Personal Use Only jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy