________________
॥ ६८५ ॥ ६८६ ॥ तत्र च यस्य यत्रावतारस्तमाह-'दंसणे'त्यादि गाथात्रयं, मोहनीयं द्विधा-चारित्रमोहनीय दर्शनमोहनीयं च, तत्र दर्शनमोहे-मिथ्यात्वादित्रयलक्षणे दर्शनपरीषहः-सम्यक्त्वपरीषह एकोऽवतरति, तदुदये तस्य भावात् , तथा ‘पन्नऽनाण'त्ति प्राकृत-|| त्वेन प्रथमाद्विवचनलोपात् प्रज्ञाऽज्ञाने-प्रज्ञापरीषहोऽज्ञानपरीषहश्च प्रथमे-ज्ञानावरणकर्मण्यवतरतः, तत्क्षयोपशमोदयाभ्यामनयोः सद्भावात् , तथा चरमे-अन्तरायकर्मणि अलाभपरीषहोऽवतरति, लाभान्तरायोदयनिबन्धनत्वादलाभस्य, तथा चारित्रमोहे-चारित्रमोहनीयनाम्नि मोहनीयभेदे आक्रोशारतिस्रीनषेधिक्यचेलयाच्यासत्कारपुरस्कारलक्षणाः सप्तैव परीषहा अवतरन्ति, अयमर्थः-क्रोधोदयादाक्रोशपरीषहः अरतिमोहनीयोदयादरतिपरीषहः पुंवेदोदयात्स्त्रीपरीषहः भयकर्मोदयान्नैषेधिकीपरीषहः जुगुप्सोदयादचेलपरीपहः मानोदयाद्याच्यापरीषहः लोभोदयात्सत्कारपुरस्कारपरीषह इति, अत्र च सत्कारो-वस्त्रादिभिः पूजनं पुरस्कारः-अभ्युत्थानादिप्रतिपत्तिः यद्वा सत्कारेण पुर|स्कारः-पुरस्करणं ततस्तावेव स एव वा परीषहः सत्कारपुरस्कारपरीषह इति, तथा एकादश परीषहा वेदनीयेऽवतरन्ति तदुदयावन्तीत्यर्थः, ते चैते 'पञ्चेव आणुपुवि' पञ्चैव-पञ्चसङ्ख्या एव, ते च कचिदनानुपूर्व्या अपि व्याख्याङ्गत्वात्तयाऽपि स्युरित्याह-आनुपूर्व्या-परिपाट्या क्षुत्पिपासाशीतोष्णदंशमशकाख्या इतियावत् तथा चर्या शय्या 'जल्ले यत्ति जल्लो-मलः, वधो रोगस्तृणस्पर्शश्वेत्येकादश, शेषेषु-पूर्वोक्तकर्मचतुष्टयव्यतिरिक्तेषु दर्शनावरणायुर्नामगोत्राख्येषु कर्मसु नास्ति परीषहाणामवतार:-अन्तर्भावः, तदुदये परीपहाणामसम्भ
वात् ॥ ६८७ ॥ ६८८ ॥ ६८९ ॥ अधुना गुणस्थानकसमवतारमाह्-'बावीसंगाहा, द्वाविंशतिरित्यपिशब्दस्य लुतनिर्दिष्टत्वाद् द्वाविं४ शतिरपि परीषहा बादरसम्परायनाम्नि गुणस्थानके, कोऽर्थः ? अनिवृत्तिबादरसम्परायं नवमगुणस्थानं यावत् सर्वेऽपि परीषहाः सम्भव
न्तीति, तथा चतुर्दश चशब्दस्यैवकारार्थत्वाचतुर्दशसङ्ख्या एव-क्षुत्पिपासाशीतोष्णदेशमशकचर्याशय्यावधालाभरोगतृणस्पर्शमलप्रज्ञाऽज्ञा
Jain Education
na
For Private & Personel Use Only
AMw.jainelibrary.org