SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ १९५ ॥ Jain Education I नरूपाः परीषहाः सूक्ष्मरागे - सूक्ष्मसम्परायनाम्नि दशमगुणस्थान के उदयमासादयन्ति मोहनीयस्य क्षपितत्वेन उपशमितत्वेन वा सप्तानां चारित्रमोहनीयप्रतिबद्धानां दर्शनमोहनीयप्रतिबद्धस्य चैकस्य तत्रासम्भवादिति भावः, तथा छद्म-आवरणं तत्र स्थितश्छद्मस्थः वीत:अपगतो रागः समस्तमोहोपशमात्सकलमोहक्षयाच्च यस्य स तथा ततः कर्मधारयः, छद्मस्थवीतरागशब्देन उपशान्तमोहक्षीणमोहलक्षणं गुणस्थानकद्वयं परिगृह्यते, तत्रापि उक्तरूपा एव चतुर्दश परीषहाः सम्भवन्तीति, तथा जिने-सयोगिकेवल्ययोगिकेवलिलक्षणे त्रयोदशचतुर्दशगुणस्थानकद्वये परीषहकारणभूतस्य वेदनीयस्यैव सद्भावात्तत्प्रतिबद्धा एव एकादश परीपहाः सम्भवन्ति, उक्तं च- "क्षुत्पिपासा च शीतोष्णे, दंशाश्चर्या वधो मलः । शय्या रोगतृणस्पर्शों, जिने वेद्यस्य सम्भवात् ॥ १ ॥” इति ॥ ६९० ॥ नन्वेते परीषहा एकस्मिन् काले उत्कृष्टतो जघन्यतश्च एकस्मिन् प्राणिनि कियन्तः प्राप्यन्ते ?, तत्राह - 'वीसं' गाहा विंशतिरुत्कृष्टपदे चिन्त्यमाने परीषहा वर्तन्ते युगपदेकत्र प्राणिनि, जघन्यतश्च - जघन्यपद्माश्रित्य एक एव परीषहः, ननूत्कृष्टपदे किं न द्वाविंशतिरपि परीषहा एकत्र वर्तन्ते ? इत्याह | शीतोष्णे चर्यानिषेधिक्यौ च युगपद् - एककालमेकत्र न वर्तेते-न सम्भवतः, परस्परपरिहारस्थितिलक्षणत्वादमीषां, तथाहि - न शीतमु| ष्णेन सह भवति नोष्णं शीतेन सह न चर्यायां नैषेधिकी न च नैषेधिक्यां सत्यां चर्येति, अतो यौगपद्येनामीषामसम्भवाद् द्वयोरभावान्नोत्कृष्टतोऽपि द्वाविंशतिरेकदा परीषहा वर्तन्त इति, ननु नैषेधिकीवत्कथं शय्यापि चर्यया सह न विरुध्यते ?, अत्रोच्यते, निरोधबाधादितस्त्वङ्गनिकादेरपि तत्र सम्भवात्, नैषेधिकी तु स्वाध्यायादीनां भूमिष्वेव प्रायः स्थिरतायामेवानुज्ञाता इति तस्या एव चर्यया वि- 2 ॥ १९५ ॥ | रोध इति, तत्त्वार्थे तु उत्कृष्टतोऽप्येकोनविंशतिरेवोक्ताः, चर्याशय्यानिषद्यादीनामेकस्य सम्भवे द्वयोरभावात्, तथाहि -चर्यायां सत्यां For Private & Personal Use Only ८६ परीपहाः २२ गा. ६८५६९१ jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy