________________
प्रव० सा
रोद्धारे तत्त्वज्ञानवि०
॥१९४॥
द्भूतगुणोत्कीर्तनादिरूपा प्रतिपत्तिः स एव परीषहः सत्कारपरीपहः, सत्कारं हि परस्माज्जायमानं दृष्ट्वा नोत्कर्षाद्याकुलं चेतः कुर्यात्
८६ परीअसत्कारितो वा न प्रद्वेषं ब्रजेत् १९ तथा प्रज्ञायतेऽनया वस्तुतत्त्वमिति प्रज्ञा-बुद्ध्यतिशयः स एव परीपहः प्रज्ञापरीषहः, मनोज्ञप्रज्ञाप्राग्भारप्राप्तौ हि न गर्वमुद्वहेत् , प्रज्ञाप्रतिपक्षेणाप्यबुद्धिकत्वेन परीषहो भवति नाहं किञ्चिजाने मूर्योऽहं सर्वैः परिभूत इत्येवं परि
षहाः २२
गा.६८५तापमुपागतस्य कर्मविपाकोऽयमिति मत्वा तदकरणात्तत्परीषहजय: २० तथा ज्ञायते वस्तुतत्त्वमनेनेति ज्ञान-श्रुताख्यं तदभावोऽज्ञानं स एव परीषहोऽज्ञानपरीषहः, आगमशून्योऽहमिति न मनसि खेदं विद्ध्यात् , एतत्प्रतिपक्षेणापि ज्ञानेन परीषहो भवति, ततः समग्रश्रुतपारगोऽहमिति नोत्सेकं गच्छेदिति २१ तथा सम्यक्त्वं-सम्यग्दर्शनं तदेव क्रियादिवादिनां विचित्रमतश्रवणेऽपि सम्यक् परिषह्यमाणं निश्चलचित्ततया धार्यमाणं परीषहः सम्यक्त्वपरीषहः, आवश्यके तु असम्यक्त्वपरीषह इति पठितं, तत्र चैवं व्याख्या-सर्वपापस्थानेभ्यो विरत: प्रकृष्टतपोऽनुष्ठायी निस्सङ्गश्चाहं तथापि धर्माधर्मात्मदेवनारकादिभावान्न प्रेक्षे ततो मृषा समस्तमेवेदमिति असम्यक्त्वपरीषहः, तत्रैवमालोचयेत्-धर्माधौं पुण्यपापलक्षणौ यदि कर्मरूपौ पुद्गलात्मको ततस्तयोः कार्यदर्शनादनुमानसमधिगम्यत्वं, अथ क्षमाक्रोधादिकौ धर्माधौं ततः स्वानुभवादात्मपरिणामरूपत्वात्प्रत्यक्षविरोधः, देवास्त्वत्यन्तसुखासक्तत्वान्मनुष्यलोके च कार्यस्याभावाद् दुष्षमानुभावाञ्च न दर्शनगोचरमायान्ति, नारकाः पुनर्निरन्तरमेवातितीव्रवेदनााः पूर्वकृतदुष्कर्मोदयनिगडबन्धनवशीकृतत्वादस्वतत्राः कथमिह समायान्तीत्यादि परिभावयतोऽसम्यक्त्वपरीषहजयो भवतीति, इतिशब्द इयत्ताप्रदर्शनार्थः, एते क्षुदादयः सम्यक्त्वान्ता द्वाविंशतिरिति | न न्यूनाधिकाः परीषहा भवन्तीति । सम्प्रत्येतेषां द्वाविंशतेरपि परीषहाणां समवतारश्चिन्त्यते स च द्वेधा-प्रकृतिसमवतारो गुणस्थानक|समवतारश्च, तत्र प्रकृतिसमवतारे ज्ञानावरणवेदनीयमोहनीयान्तरायलक्षणासु चतसृषु प्रकृतिषु द्वाविंशतिरपि परीषहाः समवतरन्ति
&ा॥१९४॥
Jain Educatio
n
al
For Private
Personal Use Only